Ṛk 4.34.1
Saṃhitā
ऋ॒भुर्विभ्वा॒ वाज॒ इंद्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात ।
इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥
ऋभुर् विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात |
इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता वः ||
ṛbhúrvíbhvā vā́ja índro no ácchemám yajñám ratnadhéyópa yāta ǀ
idā́ hí vo dhiṣáṇā devyáhnāmádhātpītím sám mádā agmatā vaḥ ǁ
ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta |
idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ ||
Padapāṭha
ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । इन्द्रः॑ । नः॒ । अच्छ॑ । इ॒मम् । य॒ज्ञम् । र॒त्न॒ऽधेया॑ । उप॑ । या॒त॒ ।
इ॒दा । हि । वः॒ । धि॒षणा॑ । दे॒वी । अह्ना॑म् । अधा॑त् । पी॒तिम् । सम् । मदाः॑ । अ॒ग्म॒त॒ । वः॒ ॥
ऋभुः । विऽभ्वा । वाजः । इन्द्रः । नः । अच्छ । इमम् । यज्ञम् । रत्नऽधेया । उप । यात ।
इदा । हि । वः । धिषणा । देवी । अह्नाम् । अधात् । पीतिम् । सम् । मदाः । अग्मत । वः ॥
ṛbhúḥ ǀ ví-bhvā ǀ vā́jaḥ ǀ índraḥ ǀ naḥ ǀ áccha ǀ imám ǀ yajñám ǀ ratna-dhéyā ǀ úpa ǀ yāta ǀ
idā́ ǀ hí ǀ vaḥ ǀ dhiṣáṇā ǀ devī́ ǀ áhnām ǀ ádhāt ǀ pītím ǀ sám ǀ mádāḥ ǀ agmata ǀ vaḥ ǁ
ṛbhuḥ ǀ vi-bhvā ǀ vājaḥ ǀ indraḥ ǀ naḥ ǀ accha ǀ imam ǀ yajñam ǀ ratna-dheyā ǀ upa ǀ yāta ǀ
idā ǀ hi ǀ vaḥ ǀ dhiṣaṇā ǀ devī ǀ ahnām ǀ adhāt ǀ pītim ǀ sam ǀ madāḥ ǀ agmata ǀ vaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.034.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.03.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.012
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.