Ṛk 4.34.10
Saṃhitā
ये गोमं॑तं॒ वाज॑वंतं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मंतं पुरु॒क्षुं ।
ते अ॑ग्रे॒पा ऋ॑भवो मंदसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णंति॑ ॥
ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम् पुरुक्षुम् |
ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ||
yé gómantam vā́javantam suvī́ram rayím dhatthá vásumantam purukṣúm ǀ
té agrepā́ ṛbhavo mandasānā́ asmé dhatta yé ca rātím gṛṇánti ǁ
ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum |
te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti ||
Padapāṭha
ये । गोऽम॑न्तम् । वाज॑ऽवन्तम् । सु॒ऽवीर॑म् । र॒यिम् । ध॒त्थ । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।
ते । अ॒ग्रे॒ऽपाः । ऋ॒भ॒वः॒ । म॒न्द॒सा॒नाः । अ॒स्मे इति॑ । ध॒त्त॒ । ये । च॒ । रा॒तिम् । गृ॒णन्ति॑ ॥
ये । गोऽमन्तम् । वाजऽवन्तम् । सुऽवीरम् । रयिम् । धत्थ । वसुऽमन्तम् । पुरुऽक्षुम् ।
ते । अग्रेऽपाः । ऋभवः । मन्दसानाः । अस्मे इति । धत्त । ये । च । रातिम् । गृणन्ति ॥
yé ǀ gó-mantam ǀ vā́ja-vantam ǀ su-vī́ram ǀ rayím ǀ dhatthá ǀ vásu-mantam ǀ puru-kṣúm ǀ
té ǀ agre-pā́ḥ ǀ ṛbhavaḥ ǀ mandasānā́ḥ ǀ asmé íti ǀ dhatta ǀ yé ǀ ca ǀ rātím ǀ gṛṇánti ǁ
ye ǀ go-mantam ǀ vāja-vantam ǀ su-vīram ǀ rayim ǀ dhattha ǀ vasu-mantam ǀ puru-kṣum ǀ
te ǀ agre-pāḥ ǀ ṛbhavaḥ ǀ mandasānāḥ ǀ asme iti ǀ dhatta ǀ ye ǀ ca ǀ rātim ǀ gṛṇanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.034.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.04.05
- Maṇḍala · Anuvāka · Ṛk
- 04.04.021
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.