Ṛk 4.34.5
Saṃhitā
आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः ।
आ वः॑ पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥
आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः |
आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् ||
ā́ vājā yātópa na ṛbhukṣā mahó naro dráviṇaso gṛṇānā́ḥ ǀ
ā́ vaḥ pītáyo’bhipitvé áhnāmimā́ ástam navasvá iva gman ǁ
ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ |
ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman ||
Padapāṭha
आ । वा॒जाः॒ । या॒त॒ । उप॑ । नः॒ । ऋ॒भु॒क्षाः॒ । म॒हः । न॒रः॒ । द्रवि॑णसः । गृ॒णा॒नाः ।
आ । वः॒ । पी॒तयः॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । इ॒माः । अस्त॑म् । न॒व॒स्वः॑ऽइव । ग्म॒न् ॥
आ । वाजाः । यात । उप । नः । ऋभुक्षाः । महः । नरः । द्रविणसः । गृणानाः ।
आ । वः । पीतयः । अभिऽपित्वे । अह्नाम् । इमाः । अस्तम् । नवस्वःऽइव । ग्मन् ॥
ā́ ǀ vājāḥ ǀ yāta ǀ úpa ǀ naḥ ǀ ṛbhukṣāḥ ǀ maháḥ ǀ naraḥ ǀ dráviṇasaḥ ǀ gṛṇānā́ḥ ǀ
ā́ ǀ vaḥ ǀ pītáyaḥ ǀ abhi-pitvé ǀ áhnām ǀ imā́ḥ ǀ ástam ǀ navasváḥ-iva ǀ gman ǁ
ā ǀ vājāḥ ǀ yāta ǀ upa ǀ naḥ ǀ ṛbhukṣāḥ ǀ mahaḥ ǀ naraḥ ǀ draviṇasaḥ ǀ gṛṇānāḥ ǀ
ā ǀ vaḥ ǀ pītayaḥ ǀ abhi-pitve ǀ ahnām ǀ imāḥ ǀ astam ǀ navasvaḥ-iva ǀ gman ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.034.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.03.05
- Maṇḍala · Anuvāka · Ṛk
- 04.04.016
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.