Ṛgveda · Maṇḍala 4 · Sūkta 34

Ṛk 4.34.11

Ṛbhus · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

नापा॑भूत॒ न वो॑ऽतीतृषा॒मानिः॑शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् ।
समिंद्रे॑ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया॑य देवाः ॥

नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् |
सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय देवाः ||

nā́pābhūta ná vo’tītṛṣāmā́niḥśastā ṛbhavo yajñé asmín ǀ
sámíndreṇa mádatha sám marúdbhiḥ sám rā́jabhī ratnadhéyāya devāḥ ǁ

nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin |
sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ ||

Padapāṭha

न । अप॑ । अ॒भू॒त॒ । न । वः॒ । अ॒ती॒तृ॒षा॒म॒ । अनिः॑ऽशस्ताः । ऋ॒भ॒वः॒ । य॒ज्ञे । अ॒स्मिन् ।
सम् । इन्द्रे॑ण । मद॑थ । सम् । म॒रुत्ऽभिः॑ । सम् । राज॑ऽभिः । र॒त्न॒ऽधेया॑य । दे॒वाः॒ ॥

न । अप । अभूत । न । वः । अतीतृषाम । अनिःऽशस्ताः । ऋभवः । यज्ञे । अस्मिन् ।
सम् । इन्द्रेण । मदथ । सम् । मरुत्ऽभिः । सम् । राजऽभिः । रत्नऽधेयाय । देवाः ॥

ná ǀ ápa ǀ abhūta ǀ ná ǀ vaḥ ǀ atītṛṣāma ǀ ániḥ-śastāḥ ǀ ṛbhavaḥ ǀ yajñé ǀ asmín ǀ
sám ǀ índreṇa ǀ mádatha ǀ sám ǀ marút-bhiḥ ǀ sám ǀ rā́ja-bhiḥ ǀ ratna-dhéyāya ǀ devāḥ ǁ

na ǀ apa ǀ abhūta ǀ na ǀ vaḥ ǀ atītṛṣāma ǀ aniḥ-śastāḥ ǀ ṛbhavaḥ ǀ yajñe ǀ asmin ǀ
sam ǀ indreṇa ǀ madatha ǀ sam ǀ marut-bhiḥ ǀ sam ǀ rāja-bhiḥ ǀ ratna-dheyāya ǀ devāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
04.034.11
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.04.06
Maṇḍala · Anuvāka · Ṛk
04.04.022
Devatā देवता
Ṛbhus
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.34.11

Interpretations

Sāyaṇa

हे ऋभवो यूयं नापाभूत । नापगच्छत । अपरक्ता न भवत । वयं च वो युष्मान्नातीतृषाम । अत्यन्तं तृषितान्मा करवाम । अतो हे ऋभवो देवा अनिःशस्ता अनिन्दिताः सन्तोऽस्मिज्ञन्य इन्द्रेण सं मदथ । मरुद्भिः सं मदथ । रजिभी राजमानैरन्यैर्देवैः सं मदथ । तृप्ता भवथ । किमर्थं । रत्नधेयाय रमणीयाय धनादानाय ॥ ११ ॥