Ṛk 4.34.9
Saṃhitā
ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुर्ऋ॒भवो॒ ये अश्वा॑ ।
ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ॥
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये अश्वा |
ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ||
yé aśvínā yé pitárā yá ūtī́ dhenúm tatakṣúrṛbhávo yé áśvā ǀ
yé áṃsatrā yá ṛ́dhagródasī yé víbhvo náraḥ svapatyā́ni cakrúḥ ǁ
ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā |
ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ ||
Padapāṭha
ये । अ॒श्विना॑ । ये । पि॒तरा॑ । ये । ऊ॒ती । धे॒नुम् । त॒त॒क्षुः । ऋ॒भवः॑ । ये । अश्वा॑ ।
ये । अंस॑त्रा । ये । ऋध॑क् । रोद॑सी॒ इति॑ । ये । विऽभ्वः॑ । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः ॥
ये । अश्विना । ये । पितरा । ये । ऊती । धेनुम् । ततक्षुः । ऋभवः । ये । अश्वा ।
ये । अंसत्रा । ये । ऋधक् । रोदसी इति । ये । विऽभ्वः । नरः । सुऽअपत्यानि । चक्रुः ॥
yé ǀ aśvínā ǀ yé ǀ pitárā ǀ yé ǀ ūtī́ ǀ dhenúm ǀ tatakṣúḥ ǀ ṛbhávaḥ ǀ yé ǀ áśvā ǀ
yé ǀ áṃsatrā ǀ yé ǀ ṛ́dhak ǀ ródasī íti ǀ yé ǀ ví-bhvaḥ ǀ náraḥ ǀ su-apatyā́ni ǀ cakrúḥ ǁ
ye ǀ aśvinā ǀ ye ǀ pitarā ǀ ye ǀ ūtī ǀ dhenum ǀ tatakṣuḥ ǀ ṛbhavaḥ ǀ ye ǀ aśvā ǀ
ye ǀ aṃsatrā ǀ ye ǀ ṛdhak ǀ rodasī iti ǀ ye ǀ vi-bhvaḥ ǀ naraḥ ǀ su-apatyāni ǀ cakruḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.034.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.04.04
- Maṇḍala · Anuvāka · Ṛk
- 04.04.020
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.