Ṛk 4.33.3
Saṃhitā
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना ।
ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिंद्र॑वंतो॒ मधु॑प्सरसो नोऽवंतु य॒ज्ञं ॥
पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना |
ते वाजो विभ्वां ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम् ||
púnaryé cakrúḥ pitárā yúvānā sánā yū́peva jaraṇā́ śáyānā ǀ
té vā́jo víbhvām̐ ṛbhúríndravanto mádhupsaraso no’vantu yajñám ǁ
punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā |
te vājo vibhvāṃ ṛbhur indravanto madhupsaraso no 'vantu yajñam ||
Padapāṭha
पुनः॑ । ये । च॒क्रुः । पि॒तरा॑ । युवा॑ना । सना॑ । यूपा॑ऽइव । ज॒र॒णा । शया॑ना ।
ते । वाजः॑ । विऽभ्वा॑ । ऋ॒भुः । इन्द्र॑ऽवन्तः । मधु॑ऽप्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥
पुनः । ये । चक्रुः । पितरा । युवाना । सना । यूपाऽइव । जरणा । शयाना ।
ते । वाजः । विऽभ्वा । ऋभुः । इन्द्रऽवन्तः । मधुऽप्सरसः । नः । अवन्तु । यज्ञम् ॥
púnaḥ ǀ yé ǀ cakrúḥ ǀ pitárā ǀ yúvānā ǀ sánā ǀ yū́pā-iva ǀ jaraṇā́ ǀ śáyānā ǀ
té ǀ vā́jaḥ ǀ ví-bhvā ǀ ṛbhúḥ ǀ índra-vantaḥ ǀ mádhu-psarasaḥ ǀ naḥ ǀ avantu ǀ yajñám ǁ
punaḥ ǀ ye ǀ cakruḥ ǀ pitarā ǀ yuvānā ǀ sanā ǀ yūpā-iva ǀ jaraṇā ǀ śayānā ǀ
te ǀ vājaḥ ǀ vi-bhvā ǀ ṛbhuḥ ǀ indra-vantaḥ ǀ madhu-psarasaḥ ǀ naḥ ǀ avantu ǀ yajñam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.033.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.01.03
- Maṇḍala · Anuvāka · Ṛk
- 04.04.003
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.