Ṛk 4.41.2
Saṃhitā
इंद्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् ।
स हं॑ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भिः॒ स प्र शृ॑ण्वे ॥
इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् |
स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे ||
índrā ha yó váruṇā cakrá āpī́ deváu mártaḥ sakhyā́ya práyasvān ǀ
sá hanti vṛtrā́ samithéṣu śátrūnávobhirvā mahádbhiḥ sá prá śṛṇve ǁ
indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān |
sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve ||
Padapāṭha
इन्द्रा॑ । ह॒ । यः । वरु॑णा । च॒क्रे । आ॒पी इति॑ । दे॒वौ । मर्तः॑ । स॒ख्याय॑ । प्रय॑स्वान् ।
सः । ह॒न्ति॒ । वृ॒त्रा । स॒म्ऽइ॒थेषु॑ । शत्रू॑न् । अवः॑ऽभिः । वा॒ । म॒हत्ऽभिः॑ । सः । प्र । शृ॒ण्वे॒ ॥
इन्द्रा । ह । यः । वरुणा । चक्रे । आपी इति । देवौ । मर्तः । सख्याय । प्रयस्वान् ।
सः । हन्ति । वृत्रा । सम्ऽइथेषु । शत्रून् । अवःऽभिः । वा । महत्ऽभिः । सः । प्र । शृण्वे ॥
índrā ǀ ha ǀ yáḥ ǀ váruṇā ǀ cakré ǀ āpī́ íti ǀ deváu ǀ mártaḥ ǀ sakhyā́ya ǀ práyasvān ǀ
sáḥ ǀ hanti ǀ vṛtrā́ ǀ sam-ithéṣu ǀ śátrūn ǀ ávaḥ-bhiḥ ǀ vā ǀ mahát-bhiḥ ǀ sáḥ ǀ prá ǀ śṛṇve ǁ
indrā ǀ ha ǀ yaḥ ǀ varuṇā ǀ cakre ǀ āpī iti ǀ devau ǀ martaḥ ǀ sakhyāya ǀ prayasvān ǀ
saḥ ǀ hanti ǀ vṛtrā ǀ sam-itheṣu ǀ śatrūn ǀ avaḥ-bhiḥ ǀ vā ǀ mahat-bhiḥ ǀ saḥ ǀ pra ǀ śṛṇve ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.041.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.15.02
- Maṇḍala · Anuvāka · Ṛk
- 04.04.071
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.