Ṛk 4.41.9
Saṃhitā
इ॒मा इंद्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा॑नाः ।
उपे॑मस्थुर्जो॒ष्टार॑ इव॒ वस्वो॑ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ॥
इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इच्छमानाः |
उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः ||
imā́ índram váruṇam me manīṣā́ ágmannúpa dráviṇamicchámānāḥ ǀ
úpemasthurjoṣṭā́ra iva vásvo raghvī́riva śrávaso bhíkṣamāṇāḥ ǁ
imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ |
upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ ||
Padapāṭha
इ॒माः । इन्द्र॑म् । वरु॑णम् । मे॒ । म॒नी॒षाः । अग्म॑न् । उप॑ । द्रवि॑णम् । इ॒च्छमा॑नाः ।
उप॑ । ई॒म् । अ॒स्थुः॒ । जो॒ष्टारः॑ऽइव । वस्वः॑ । र॒घ्वीःऽइ॑व । श्रव॑सः । भिक्ष॑माणाः ॥
इमाः । इन्द्रम् । वरुणम् । मे । मनीषाः । अग्मन् । उप । द्रविणम् । इच्छमानाः ।
उप । ईम् । अस्थुः । जोष्टारःऽइव । वस्वः । रघ्वीःऽइव । श्रवसः । भिक्षमाणाः ॥
imā́ḥ ǀ índram ǀ váruṇam ǀ me ǀ manīṣā́ḥ ǀ ágman ǀ úpa ǀ dráviṇam ǀ icchámānāḥ ǀ
úpa ǀ īm ǀ asthuḥ ǀ joṣṭā́raḥ-iva ǀ vásvaḥ ǀ raghvī́ḥ-iva ǀ śrávasaḥ ǀ bhíkṣamāṇāḥ ǁ
imāḥ ǀ indram ǀ varuṇam ǀ me ǀ manīṣāḥ ǀ agman ǀ upa ǀ draviṇam ǀ icchamānāḥ ǀ
upa ǀ īm ǀ asthuḥ ǀ joṣṭāraḥ-iva ǀ vasvaḥ ǀ raghvīḥ-iva ǀ śravasaḥ ǀ bhikṣamāṇāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.041.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.16.04
- Maṇḍala · Anuvāka · Ṛk
- 04.04.078
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.