Ṛk 4.41.8
Saṃhitā
ता वां॒ धियोऽव॑से वाज॒यंती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू ।
श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिंद्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥
ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू |
श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः ||
tā́ vām dhíyó’vase vājayántīrājím ná jagmuryuvayū́ḥ sudānū ǀ
śriyé ná gā́va úpa sómamasthuríndram gíro váruṇam me manīṣā́ḥ ǁ
tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū |
śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ ||
Padapāṭha
ताः । वा॒म् । धियः॑ । अव॑से । वा॒ज॒ऽयन्तीः॑ । आ॒जिम् । न । ज॒ग्मुः॒ । यु॒व॒ऽयूः । सु॒दा॒नू॒ इति॑ सुऽदानू ।
श्रि॒ये । न । गावः॑ । उप॑ । सोम॑म् । अ॒स्थुः॒ । इन्द्र॑म् । गिरः॑ । वरु॑णम् । मे॒ । म॒नी॒षाः ॥
ताः । वाम् । धियः । अवसे । वाजऽयन्तीः । आजिम् । न । जग्मुः । युवऽयूः । सुदानू इति सुऽदानू ।
श्रिये । न । गावः । उप । सोमम् । अस्थुः । इन्द्रम् । गिरः । वरुणम् । मे । मनीषाः ॥
tā́ḥ ǀ vām ǀ dhíyaḥ ǀ ávase ǀ vāja-yántīḥ ǀ ājím ǀ ná ǀ jagmuḥ ǀ yuva-yū́ḥ ǀ sudānū íti su-dānū ǀ
śriyé ǀ ná ǀ gā́vaḥ ǀ úpa ǀ sómam ǀ asthuḥ ǀ índram ǀ gíraḥ ǀ váruṇam ǀ me ǀ manīṣā́ḥ ǁ
tāḥ ǀ vām ǀ dhiyaḥ ǀ avase ǀ vāja-yantīḥ ǀ ājim ǀ na ǀ jagmuḥ ǀ yuva-yūḥ ǀ sudānū iti su-dānū ǀ
śriye ǀ na ǀ gāvaḥ ǀ upa ǀ somam ǀ asthuḥ ǀ indram ǀ giraḥ ǀ varuṇam ǀ me ǀ manīṣāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.041.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.16.03
- Maṇḍala · Anuvāka · Ṛk
- 04.04.077
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.