Ṛk 4.41.11
Saṃhitā
आ नो॑ बृहंता बृह॒तीभि॑रू॒ती इंद्र॑ या॒तं व॑रुण॒ वाज॑सातौ ।
यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळां॒तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥
आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ |
यद् दिद्यवः पृतनासु प्रक्रीऌआन् तस्य वां स्याम सनितार आजेः ||
ā́ no bṛhantā bṛhatī́bhirūtī́ índra yātám varuṇa vā́jasātau ǀ
yáddidyávaḥ pṛ́tanāsu prakrī́ḷāntásya vām syāma sanitā́ra ājéḥ ǁ
ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau |
yad didyavaḥ pṛtanāsu prakrīḷān tasya vāṃ syāma sanitāra ājeḥ ||
Padapāṭha
आ । नः॒ । बृ॒ह॒न्ता॒ । बृ॒ह॒तीभिः॑ । ऊ॒ती । इन्द्र॑ । या॒तम् । व॒रु॒ण॒ । वाज॑ऽसातौ ।
यत् । दि॒द्यवः॑ । पृत॑नासु । प्र॒ऽक्रीळा॑न् । तस्य॑ । वा॒म् । स्या॒म॒ । स॒नि॒तारः॑ । आ॒जेः ॥
आ । नः । बृहन्ता । बृहतीभिः । ऊती । इन्द्र । यातम् । वरुण । वाजऽसातौ ।
यत् । दिद्यवः । पृतनासु । प्रऽक्रीळान् । तस्य । वाम् । स्याम । सनितारः । आजेः ॥
ā́ ǀ naḥ ǀ bṛhantā ǀ bṛhatī́bhiḥ ǀ ūtī́ ǀ índra ǀ yātám ǀ varuṇa ǀ vā́ja-sātau ǀ
yát ǀ didyávaḥ ǀ pṛ́tanāsu ǀ pra-krī́ḷān ǀ tásya ǀ vām ǀ syāma ǀ sanitā́raḥ ǀ ājéḥ ǁ
ā ǀ naḥ ǀ bṛhantā ǀ bṛhatībhiḥ ǀ ūtī ǀ indra ǀ yātam ǀ varuṇa ǀ vāja-sātau ǀ
yat ǀ didyavaḥ ǀ pṛtanāsu ǀ pra-krīḷān ǀ tasya ǀ vām ǀ syāma ǀ sanitāraḥ ǀ ājeḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.041.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.16.06
- Maṇḍala · Anuvāka · Ṛk
- 04.04.080
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.