Ṛk 4.41.6
Saṃhitā
तो॒के हि॒ते तन॑य उ॒र्वरा॑सु॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
इंद्रा॑ नो॒ अत्र॒ वरु॑णा स्याता॒मवो॑भिर्द॒स्मा परि॑तक्म्यायां ॥
तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये |
इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् ||
toké hité tánaya urvárāsu sū́ro dṛ́śīke vṛ́ṣaṇaśca páuṃsye ǀ
índrā no átra váruṇā syātāmávobhirdasmā́ páritakmyāyām ǁ
toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye |
indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām ||
Padapāṭha
तो॒के । हि॒ते । तन॑ये । उ॒र्वरा॑सु । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।
इन्द्रा॑ । नः॒ । अत्र॑ । वरु॑णा । स्या॒ता॒म् । अवः॑ऽभिः । द॒स्मा । परि॑ऽतक्म्यायाम् ॥
तोके । हिते । तनये । उर्वरासु । सूरः । दृशीके । वृषणः । च । पौंस्ये ।
इन्द्रा । नः । अत्र । वरुणा । स्याताम् । अवःऽभिः । दस्मा । परिऽतक्म्यायाम् ॥
toké ǀ hité ǀ tánaye ǀ urvárāsu ǀ sū́raḥ ǀ dṛ́śīke ǀ vṛ́ṣaṇaḥ ǀ ca ǀ páuṃsye ǀ
índrā ǀ naḥ ǀ átra ǀ váruṇā ǀ syātām ǀ ávaḥ-bhiḥ ǀ dasmā́ ǀ pári-takmyāyām ǁ
toke ǀ hite ǀ tanaye ǀ urvarāsu ǀ sūraḥ ǀ dṛśīke ǀ vṛṣaṇaḥ ǀ ca ǀ pauṃsye ǀ
indrā ǀ naḥ ǀ atra ǀ varuṇā ǀ syātām ǀ avaḥ-bhiḥ ǀ dasmā ǀ pari-takmyāyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.041.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.16.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.075
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.