Ṛk 4.41.4
Saṃhitā
इंद्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्रं॑ ।
यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योजः॑ ॥
इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् |
यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः ||
índrā yuvám varuṇā didyúmasminnójiṣṭhamugrā ní vadhiṣṭam vájram ǀ
yó no durévo vṛkátirdabhī́tistásminmimāthāmabhíbhūtyójaḥ ǁ
indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram |
yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ ||
Padapāṭha
इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । दि॒द्युम् । अ॒स्मि॒न् । ओजि॑ष्ठम् । उ॒ग्रा॒ । नि । व॒धि॒ष्ट॒म् । वज्र॑म् ।
यः । नः॒ । दुः॒ऽएवः॑ । वृ॒कतिः॑ । द॒भीतिः॑ । तस्मि॑न् । मि॒मा॒था॒म् । अ॒भिऽभू॑ति । ओजः॑ ॥
इन्द्रा । युवम् । वरुणा । दिद्युम् । अस्मिन् । ओजिष्ठम् । उग्रा । नि । वधिष्टम् । वज्रम् ।
यः । नः । दुःऽएवः । वृकतिः । दभीतिः । तस्मिन् । मिमाथाम् । अभिऽभूति । ओजः ॥
índrā ǀ yuvám ǀ varuṇā ǀ didyúm ǀ asmin ǀ ójiṣṭham ǀ ugrā ǀ ní ǀ vadhiṣṭam ǀ vájram ǀ
yáḥ ǀ naḥ ǀ duḥ-évaḥ ǀ vṛkátiḥ ǀ dabhī́tiḥ ǀ tásmin ǀ mimāthām ǀ abhí-bhūti ǀ ójaḥ ǁ
indrā ǀ yuvam ǀ varuṇā ǀ didyum ǀ asmin ǀ ojiṣṭham ǀ ugrā ǀ ni ǀ vadhiṣṭam ǀ vajram ǀ
yaḥ ǀ naḥ ǀ duḥ-evaḥ ǀ vṛkatiḥ ǀ dabhītiḥ ǀ tasmin ǀ mimāthām ǀ abhi-bhūti ǀ ojaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.041.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.15.04
- Maṇḍala · Anuvāka · Ṛk
- 04.04.073
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.