Ṛk 4.58.10
Saṃhitā
अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।
इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवंते ॥
अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त |
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ||
abhyárṣata suṣṭutím gávyamājímasmā́su bhadrā́ dráviṇāni dhatta ǀ
imám yajñám nayata devátā no ghṛtásya dhā́rā mádhumatpavante ǁ
abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta |
imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante ||
Padapāṭha
अ॒भि । अ॒र्ष॒त॒ । सु॒ऽस्तु॒तिम् । गव्य॑म् । आ॒जिम् । अ॒स्मासु॑ । भ॒द्रा । द्रवि॑णानि । ध॒त्त॒ ।
इ॒मम् । य॒ज्ञम् । न॒य॒त॒ । दे॒वता॑ । नः॒ । घृ॒तस्य॑ । धाराः॑ । मधु॑ऽमत् । प॒व॒न्ते॒ ॥
अभि । अर्षत । सुऽस्तुतिम् । गव्यम् । आजिम् । अस्मासु । भद्रा । द्रविणानि । धत्त ।
इमम् । यज्ञम् । नयत । देवता । नः । घृतस्य । धाराः । मधुऽमत् । पवन्ते ॥
abhí ǀ arṣata ǀ su-stutím ǀ gávyam ǀ ājím ǀ asmā́su ǀ bhadrā́ ǀ dráviṇāni ǀ dhatta ǀ
imám ǀ yajñám ǀ nayata ǀ devátā ǀ naḥ ǀ ghṛtásya ǀ dhā́rāḥ ǀ mádhu-mat ǀ pavante ǁ
abhi ǀ arṣata ǀ su-stutim ǀ gavyam ǀ ājim ǀ asmāsu ǀ bhadrā ǀ draviṇāni ǀ dhatta ǀ
imam ǀ yajñam ǀ nayata ǀ devatā ǀ naḥ ǀ ghṛtasya ǀ dhārāḥ ǀ madhu-mat ǀ pavante ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.058.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.11.05
- Maṇḍala · Anuvāka · Ṛk
- 04.05.099
- Devatā देवता
- Agni Or Sūrya Or Āpas Or Gāvas Or Ghi
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.