Ṛk 4.58.11
Saṃhitā
धामं॑ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तमं॒तः स॑मु॒द्रे हृ॒द्यं१॒॑तरायु॑षि ।
अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मंतं त ऊ॒र्मिं ॥
धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अन्तर् आयुषि |
अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त ऊर्मिम् ||
dhā́mante víśvam bhúvanamádhi śritámantáḥ samudré hṛdyántárā́yuṣi ǀ
apā́mánīke samithé yá ā́bhṛtastámaśyāma mádhumantam ta ūrmím ǁ
dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi |
apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim ||
Padapāṭha
धाम॑न् । ते॒ । विश्व॑म् । भुव॑नम् । अधि॑ । श्रि॒तम् । अ॒न्तरिति॑ । स॒मु॒द्रे । हृ॒दि । अ॒न्तः । आयु॑षि ।
अ॒पाम् । अनी॑के । स॒म्ऽइ॒थे । यः । आऽभृ॑तः । तम् । अ॒श्या॒म॒ । मधु॑ऽमन्तम् । ते॒ । ऊ॒र्मिम् ॥
धामन् । ते । विश्वम् । भुवनम् । अधि । श्रितम् । अन्तरिति । समुद्रे । हृदि । अन्तः । आयुषि ।
अपाम् । अनीके । सम्ऽइथे । यः । आऽभृतः । तम् । अश्याम । मधुऽमन्तम् । ते । ऊर्मिम् ॥
dhā́man ǀ te ǀ víśvam ǀ bhúvanam ǀ ádhi ǀ śritám ǀ antáríti ǀ samudré ǀ hṛdí ǀ antáḥ ǀ ā́yuṣi ǀ
apā́m ǀ ánīke ǀ sam-ithé ǀ yáḥ ǀ ā́-bhṛtaḥ ǀ tám ǀ aśyāma ǀ mádhu-mantam ǀ te ǀ ūrmím ǁ
dhāman ǀ te ǀ viśvam ǀ bhuvanam ǀ adhi ǀ śritam ǀ antariti ǀ samudre ǀ hṛdi ǀ antaḥ ǀ āyuṣi ǀ
apām ǀ anīke ǀ sam-ithe ǀ yaḥ ǀ ā-bhṛtaḥ ǀ tam ǀ aśyāma ǀ madhu-mantam ǀ te ǀ ūrmim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.058.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.11.06
- Maṇḍala · Anuvāka · Ṛk
- 04.05.100
- Devatā देवता
- Agni Or Sūrya Or Āpas Or Gāvas Or Ghi
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.