Ṛgveda · Maṇḍala 3 · Sūkta 37

Ṛk 3.37.11

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ ।
उ॒ लो॒को यस्ते॑ अद्रिव॒ इंद्रे॒ह तत॒ आ ग॑हि ॥

अर्वावतो न आ गह्य् अथो शक्र परावतः |
उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ||

arvāváto na ā́ gahyátho śakra parāvátaḥ ǀ
u lokó yáste adriva índrehá táta ā́ gahi ǁ

arvāvato na ā gahy atho śakra parāvataḥ |
u loko yas te adriva indreha tata ā gahi ||

Padapāṭha

अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒ऽवतः॑ ।
ऊं॒ इति॑ । लो॒कः । यः । ते॒ । अ॒द्रि॒ऽवः॒ । इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥

अर्वाऽवतः । नः । आ । गहि । अथो इति । शक्र । पराऽवतः ।
ऊं इति । लोकः । यः । ते । अद्रिऽवः । इन्द्र । इह । ततः । आ । गहि ॥

arvā-vátaḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ átho íti ǀ śakra ǀ parā-vátaḥ ǀ
ūṃ íti ǀ lokáḥ ǀ yáḥ ǀ te ǀ adri-vaḥ ǀ índra ǀ ihá ǀ tátaḥ ǀ ā́ ǀ gahi ǁ

arvā-vataḥ ǀ naḥ ǀ ā ǀ gahi ǀ atho iti ǀ śakra ǀ parā-vataḥ ǀ
ūṃ iti ǀ lokaḥ ǀ yaḥ ǀ te ǀ adri-vaḥ ǀ indra ǀ iha ǀ tataḥ ǀ ā ǀ gahi ǁ

References

Maṇḍala · Sūkta · Ṛk
03.037.11
Aṣṭaka · Adhyāya · Varga · Ṛk
3.2.22.06
Maṇḍala · Anuvāka · Ṛk
03.03.118
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
ऋषभः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.37.11

Interpretations

Sāyaṇa

शक्र बलवन्हे इन्द्र अर्वावतोऽर्वाचीनात्समीपाद्देशात् अथो आपि च परावतोऽतिदूराद्देशान्नोऽस्मानभिलक्ष्या गहि । आगच्छ । अद्रिवः । अत्ति भक्षयति शत्रूनित्यद्रिर्वज्रः । तद्वन् हे इन्द्र ते तव य उ लोक उत्तमो लोकोऽस्ति ततस्तस्मादपि लोकादिहास्मिन्देवयजने देशे सोमपानार्थामा गहि । आगच्छ । गहि । गमेर्लोटि रूपं । परावतः । उपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः । अद्रिवः । मतुवसो रुरिति रुः । ततः । पञ्चम्यास्तसिलिति तसिल् । लित्स्वरः ॥ ११ ॥