Ṛgveda · Maṇḍala 3 · Sūkta 33

Ṛk 3.33.13

Nadyaḥ · Viśvāmitra · Indra · Apas, Indra, Nadyaḥ · 1-3, 5, 7, 9, 11-13: Viśvāmitra Gāthina; 4, 6, 8, 10: Śutudrī River; Vipāś River

The whole sūkta Link

Saṃhitā

उद्व॑ ऊ॒र्मिः शम्या॑ हं॒त्वापो॒ योक्त्रा॑णि मुंचत ।
मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑तां ॥

उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत |
मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम् ||

údva ūrmíḥ śámyā hantvā́po yóktrāṇi muñcata ǀ
mā́duṣkṛtau vyénasāghnyáu śū́namā́ratām ǁ

ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata |
māduṣkṛtau vyenasāghnyau śūnam āratām ||

Padapāṭha

उत् । वः॒ । ऊ॒र्मिः । शम्याः॑ । ह॒न्तु॒ । आपः॑ । योक्त्रा॑णि । मु॒ञ्च॒त॒ ।
मा । अदुः॑ऽकृतौ । विऽए॑नसा । अ॒घ्न्यौ । शून॑म् । आ । अ॒र॒ता॒म् ॥

उत् । वः । ऊर्मिः । शम्याः । हन्तु । आपः । योक्त्राणि । मुञ्चत ।
मा । अदुःऽकृतौ । विऽएनसा । अघ्न्यौ । शूनम् । आ । अरताम् ॥

út ǀ vaḥ ǀ ūrmíḥ ǀ śámyāḥ ǀ hantu ǀ ā́paḥ ǀ yóktrāṇi ǀ muñcata ǀ
mā́ ǀ áduḥ-kṛtau ǀ ví-enasā ǀ aghnyáu ǀ śū́nam ǀ ā́ ǀ aratām ǁ

ut ǀ vaḥ ǀ ūrmiḥ ǀ śamyāḥ ǀ hantu ǀ āpaḥ ǀ yoktrāṇi ǀ muñcata ǀ
mā ǀ aduḥ-kṛtau ǀ vi-enasā ǀ aghnyau ǀ śūnam ǀ ā ǀ aratām ǁ

References

Maṇḍala · Sūkta · Ṛk
03.033.13
Aṣṭaka · Adhyāya · Varga · Ṛk
3.2.14.03
Maṇḍala · Anuvāka · Ṛk
03.03.074
Devatā देवता
1-3, 5, 9, 11-13: Nadyaḥ; 4, 8, 10: Viśvāmitra; 6: Indra; 7: Apas, Indra, Nadyaḥ
Ṛṣi ऋषि
1-3, 5, 7, 9, 11-13: Viśvāmitra Gāthina; 4, 6, 8, 10: Śutudrī River; Vipāś River
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Svara स्वरः
ऋषभः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.33.13

Interpretations

Sāyaṇa

पूर्वमुत्तितीर्शुर्विश्वामित्रो नदीरुक्त्वाधुनोत्तितीर्षुः पुनराह । हे नद्यो वो युष्माकमूर्मिस्तरङ्गः शम्या युगकीला युग्यकटपार्श्वादिसंलग्नारज्जव उदूर्ध्वं यथा भवन्ति तथा हन्तु । गच्छतु । स तरङ्गो रज्जूनामधो गच्छत्वित्यभिप्रायः । तथा हे आपो यूयं योक्राणि ता रज्जूर्मुञ्चत । यथा न स्पृशन्ति तथा यान्त्वित्यभिप्रायः । व्येनसा विगतपापे आत एवादुष्कृतौ कल्याणकर्मकारिण्यौ अघ्न्यावघ्न्ये न केनापि तिरस्करणिये विपाट्छुतद्रौ शूनं समृद्धिं मारतां । आगच्छतां । एवं विश्वामित्रो नदीः स्तुत्वा ताभिरनुज्ञातोऽतरदिति ॥ ऊर्मिः । ऋ गतौ अर्तेरूच्चेति मिप्रत्ययः । ऊरित्ययमादेशो धातोः ऋच्छतीत्यूर्मिः प्रत्ययस्वरः । शम्याः । शमु उपरमे पोरदुपधादिति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वं । हन्तु हन हिम्सागत्योरित्यस्य लोटि रूपं । निघातः । योक्त्राणि युजिर् योगे । करणे दाम्नीशसयुयुजेत्यादिना ष्ट्रन्प्रत्ययः । नित्स्वरः । मुञ्चत मुच्लृ मोक्शणे । निघातः । अदुष्कृतौ । इसुसोः सामर्थ्य इति विसर्जनीयस्य षत्वं व्येनसा बहुव्रीहौ पुर्वपदस्वरः । सुपो डादेशः । आघ्न्यौ । हन हिम्सागत्योरित्यस्य नञ्पूर्वस्याघ्न्यादयश्चेति निपातनाद्यक् । कित्त्वादुपधाऊपः । हो हन्तेरिति घत्वं । सर्वविधीनां छन्दसि विकल्पितत्वादत्रौञः शीभावाभावः । एकादेशस्वरः । शूनं । श्वयतेर्नपुंसके भावे क्त इति क्तः । यजादित्तात्संप्रसारनं । हल इति दीर्घत्वं ओदितश्चेति निष्ठानत्वं । निष्ठा च द्व्यजनादित्याद्युदात्तः । अरतां । ऋ गतावित्यस्य लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । ऋदृशोऽङि गुणः । नमाङ्योग इत्यडभावः निघातः ॥ १३ ॥