Ṛgveda · Maṇḍala 4 · Sūkta 31

Ṛk 4.31.15

Indra · Indra, Sūrya · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य ।
वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥

अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य |
वर्षिष्ठं द्याम् इवोपरि ||

asmā́kamuttamám kṛdhi śrávo devéṣu sūrya ǀ
várṣiṣṭham dyā́mivopári ǁ

asmākam uttamaṃ kṛdhi śravo deveṣu sūrya |
varṣiṣṭhaṃ dyām ivopari ||

Padapāṭha

अ॒स्माक॑म् । उ॒त्ऽत॒मम् । कृ॒धि॒ । श्रवः॑ । दे॒वेषु॑ । सू॒र्य॒ ।
वर्षि॑ष्ठम् । द्याम्ऽइ॑व । उ॒परि॑ ॥

अस्माकम् । उत्ऽतमम् । कृधि । श्रवः । देवेषु । सूर्य ।
वर्षिष्ठम् । द्याम्ऽइव । उपरि ॥

asmā́kam ǀ ut-tamám ǀ kṛdhi ǀ śrávaḥ ǀ devéṣu ǀ sūrya ǀ
várṣiṣṭham ǀ dyā́m-iva ǀ upári ǁ

asmākam ǀ ut-tamam ǀ kṛdhi ǀ śravaḥ ǀ deveṣu ǀ sūrya ǀ
varṣiṣṭham ǀ dyām-iva ǀ upari ǁ

References

Maṇḍala · Sūkta · Ṛk
04.031.15
Aṣṭaka · Adhyāya · Varga · Ṛk
3.6.26.05
Maṇḍala · Anuvāka · Ṛk
04.03.102
Devatā देवता
1-14: Indra; 15: Indra, Sūrya
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Gāyatrī, Pādanicṛt
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.31.15

Interpretations

Sāyaṇa

उपोद्घातः

अस्माकमुत्तमं कृधीत्यनयादित्यं दृष्ट्वा रथादवरोहेत् । तथा च सूत्रितं । अस्माकमत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् । आ. गृ. २-६-१२ । इति

हे सूर्य सर्वस्य प्रेरकेन्द्र हे आदित्य वा त्वं देवेषु द्योतमानेषु वह्न्यादिषु मध्येऽस्माकमस्मत्सम्बन्धि श्रवो यश उत्तममुत्कृष्टं कृधि । कुरु । तत्र दृष्टान्तः । वर्षिष्थमतिशयेन प्रवृद्धं सेचनसमर्थं वा द्यामिव द्युलोकं यथा सर्वेषां लोकानामुपरि स्थितमुत्कृष्टमकरोस्तद्वत् ॥ १५ ॥