Ṛk 6.43.2
Saṃhitā
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मंतं॑ च॒ रक्ष॑से ।
अ॒यं स सोम॑ इंद्र ते सु॒तः पिब॑ ॥
यस्य तीव्रसुतम् मदम् मध्यम् अन्तं च रक्षसे |
अयं स सोम इन्द्र ते सुतः पिब ||
yásya tīvrasútam mádam mádhyamántam ca rákṣase ǀ
ayám sá sóma indra te sutáḥ píba ǁ
yasya tīvrasutam madam madhyam antaṃ ca rakṣase |
ayaṃ sa soma indra te sutaḥ piba ||
Padapāṭha
यस्य॑ । ती॒व्र॒ऽसुत॑म् । मद॑म् । मध्य॑म् । अन्त॑म् । च॒ । रक्ष॑से ।
अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥
यस्य । तीव्रऽसुतम् । मदम् । मध्यम् । अन्तम् । च । रक्षसे ।
अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥
yásya ǀ tīvra-sútam ǀ mádam ǀ mádhyam ǀ ántam ǀ ca ǀ rákṣase ǀ
ayám ǀ sáḥ ǀ sómaḥ ǀ indra ǀ te ǀ sutáḥ ǀ píba ǁ
yasya ǀ tīvra-sutam ǀ madam ǀ madhyam ǀ antam ǀ ca ǀ rakṣase ǀ
ayam ǀ saḥ ǀ somaḥ ǀ indra ǀ te ǀ sutaḥ ǀ piba ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.043.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.15.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.115
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.