Ṛk 6.34.2
Saṃhitā
पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः ।
रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिंद्रो॑ अनु॒माद्यो॑ भूत् ॥
पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः |
रथो न महे शवसे युजानो ऽस्माभिर् इन्द्रो अनुमाद्यो भूत् ||
puruhūtó yáḥ purugūrtá ṛ́bhvām̐ ékaḥ purupraśastó ásti yajñáiḥ ǀ
rátho ná mahé śávase yujānó’smā́bhiríndro anumā́dyo bhūt ǁ
puruhūto yaḥ purugūrta ṛbhvāṃ ekaḥ purupraśasto asti yajñaiḥ |
ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt ||
Padapāṭha
पु॒रु॒ऽहू॒तः । यः । पु॒रु॒ऽगू॒र्तः । ऋभ्वा॑ । एकः॑ । पु॒रु॒ऽप्र॒श॒स्तः । अस्ति॑ । य॒ज्ञैः ।
रथः॑ । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभिः॑ । इन्द्रः॑ । अ॒नु॒ऽमाद्यः॑ । भू॒त् ॥
पुरुऽहूतः । यः । पुरुऽगूर्तः । ऋभ्वा । एकः । पुरुऽप्रशस्तः । अस्ति । यज्ञैः ।
रथः । न । महे । शवसे । युजानः । अस्माभिः । इन्द्रः । अनुऽमाद्यः । भूत् ॥
puru-hūtáḥ ǀ yáḥ ǀ puru-gūrtáḥ ǀ ṛ́bhvā ǀ ékaḥ ǀ puru-praśastáḥ ǀ ásti ǀ yajñáiḥ ǀ
ráthaḥ ǀ ná ǀ mahé ǀ śávase ǀ yujānáḥ ǀ asmā́bhiḥ ǀ índraḥ ǀ anu-mā́dyaḥ ǀ bhūt ǁ
puru-hūtaḥ ǀ yaḥ ǀ puru-gūrtaḥ ǀ ṛbhvā ǀ ekaḥ ǀ puru-praśastaḥ ǀ asti ǀ yajñaiḥ ǀ
rathaḥ ǀ na ǀ mahe ǀ śavase ǀ yujānaḥ ǀ asmābhiḥ ǀ indraḥ ǀ anu-mādyaḥ ǀ bhūt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.034.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.06.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.071
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunahotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.