Ṛk 6.34.1
Saṃhitā
सं च॒ त्वे ज॒ग्मुर्गिर॑ इंद्र पू॒र्वीर्वि च॒ त्वद्यं॑ति वि॒भ्वो॑ मनी॒षाः ।
पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इंद्रे॒ अध्यु॑क्था॒र्का ॥
सं च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति विभ्वो मनीषाः |
पुरा नूनं च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य् उक्थार्का ||
sám ca tvé jagmúrgíra indra pūrvī́rví ca tvádyanti vibhvó manīṣā́ḥ ǀ
purā́ nūnám ca stutáya ṛ́ṣīṇām paspṛdhrá índre ádhyukthārkā́ ǁ
saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ |
purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā ||
Padapāṭha
सम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः ।
पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥
सम् । च । त्वे इति । जग्मुः । गिरः । इन्द्र । पूर्वीः । वि । च । त्वत् । यन्ति । विऽभ्वः । मनीषाः ।
पुरा । नूनम् । च । स्तुतयः । ऋषीणाम् । पस्पृध्रे । इन्द्रे । अधि । उक्थऽअर्का ॥
sám ǀ ca ǀ tvé íti ǀ jagmúḥ ǀ gíraḥ ǀ indra ǀ pūrvī́ḥ ǀ ví ǀ ca ǀ tvát ǀ yanti ǀ vi-bhváḥ ǀ manīṣā́ḥ ǀ
purā́ ǀ nūnám ǀ ca ǀ stutáyaḥ ǀ ṛ́ṣīṇām ǀ paspṛdhré ǀ índre ǀ ádhi ǀ uktha-arkā́ ǁ
sam ǀ ca ǀ tve iti ǀ jagmuḥ ǀ giraḥ ǀ indra ǀ pūrvīḥ ǀ vi ǀ ca ǀ tvat ǀ yanti ǀ vi-bhvaḥ ǀ manīṣāḥ ǀ
purā ǀ nūnam ǀ ca ǀ stutayaḥ ǀ ṛṣīṇām ǀ paspṛdhre ǀ indre ǀ adhi ǀ uktha-arkā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.034.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.06.01
- Maṇḍala · Anuvāka · Ṛk
- 06.03.070
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunahotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.