Ṛk 6.34.3
Saṃhitā
न यं हिंसं॑ति धी॒तयो॒ न वाणी॒रिंद्रं॒ नक्षं॒तीद॒भि व॒र्धयं॑तीः ।
यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णंति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥
न यं हिंसन्ति धीतयो न वाणीर् इन्द्रं नक्षन्तीद् अभि वर्धयन्तीः |
यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं तद् अस्मै ||
ná yám híṃsanti dhītáyo ná vā́ṇīríndram nákṣantī́dabhí vardháyantīḥ ǀ
yádi stotā́raḥ śatám yátsahásram gṛṇánti gírvaṇasam śám tádasmai ǁ
na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ |
yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai ||
Padapāṭha
न । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः ।
यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥
न । यम् । हिंसन्ति । धीतयः । न । वाणीः । इन्द्रम् । नक्षन्ति । इत् । अभि । वर्धयन्तीः ।
यदि । स्तोतारः । शतम् । यत् । सहस्रम् । गृणन्ति । गिर्वणसम् । शम् । तत् । अस्मै ॥
ná ǀ yám ǀ híṃsanti ǀ dhītáyaḥ ǀ ná ǀ vā́ṇīḥ ǀ índram ǀ nákṣanti ǀ ít ǀ abhí ǀ vardháyantīḥ ǀ
yádi ǀ stotā́raḥ ǀ śatám ǀ yát ǀ sahásram ǀ gṛṇánti ǀ gírvaṇasam ǀ śám ǀ tát ǀ asmai ǁ
na ǀ yam ǀ hiṃsanti ǀ dhītayaḥ ǀ na ǀ vāṇīḥ ǀ indram ǀ nakṣanti ǀ it ǀ abhi ǀ vardhayantīḥ ǀ
yadi ǀ stotāraḥ ǀ śatam ǀ yat ǀ sahasram ǀ gṛṇanti ǀ girvaṇasam ǀ śam ǀ tat ǀ asmai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.034.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.06.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.072
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunahotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.