Ṛk 6.34.5
Saṃhitā
अस्मा॑ ए॒तन्मह्यां॑गू॒षम॑स्मा॒ इंद्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि ।
अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इंद्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥
अस्मा एतन् मह्य् आङ्गूषम् अस्मा इन्द्राय स्तोत्रम् मतिभिर् अवाचि |
असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता वृधश् च ||
ásmā etánmáhyāṅgūṣámasmā índrāya stotrám matíbhiravāci ǀ
ásadyáthā mahatí vṛtratū́rya índro viśvā́yuravitā́ vṛdháśca ǁ
asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci |
asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca ||
Padapāṭha
अस्मै॑ । ए॒तत् । महि॑ । आ॒ङ्गू॒षम् । अ॒स्मै॒ । इन्द्रा॑य । स्तो॒त्रम् । म॒तिऽभिः॑ । अ॒वा॒चि॒ ।
अस॑त् । यथा॑ । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ । इन्द्रः॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धः । च॒ ॥
अस्मै । एतत् । महि । आङ्गूषम् । अस्मै । इन्द्राय । स्तोत्रम् । मतिऽभिः । अवाचि ।
असत् । यथा । महति । वृत्रऽतूर्ये । इन्द्रः । विश्वऽआयुः । अविता । वृधः । च ॥
ásmai ǀ etát ǀ máhi ǀ āṅgūṣám ǀ asmai ǀ índrāya ǀ stotrám ǀ matí-bhiḥ ǀ avāci ǀ
ásat ǀ yáthā ǀ mahatí ǀ vṛtra-tū́rye ǀ índraḥ ǀ viśvá-āyuḥ ǀ avitā́ ǀ vṛdháḥ ǀ ca ǁ
asmai ǀ etat ǀ mahi ǀ āṅgūṣam ǀ asmai ǀ indrāya ǀ stotram ǀ mati-bhiḥ ǀ avāci ǀ
asat ǀ yathā ǀ mahati ǀ vṛtra-tūrye ǀ indraḥ ǀ viśva-āyuḥ ǀ avitā ǀ vṛdhaḥ ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.034.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.06.05
- Maṇḍala · Anuvāka · Ṛk
- 06.03.074
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunahotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.