Ṛk 6.34.4
Saṃhitā
अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इंद्रे॒ न्य॑यामि॒ सोमः॑ ।
जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥
अस्मा एतद् दिव्य् अर्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः |
जनं न धन्वन्न् अभि सं यद् आपः सत्रा वावृधुर् हवनानि यज्ञैः ||
ásmā etáddivyárcéva māsā́ mimikṣá índre nyáyāmi sómaḥ ǀ
jánam ná dhánvannabhí sám yádā́paḥ satrā́ vāvṛdhurhávanāni yajñáiḥ ǁ
asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ |
janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ ||
Padapāṭha
अस्मै॑ । ए॒तत् । दि॒वि । अ॒र्चाऽइ॑व । मा॒सा । मि॒मि॒क्षः । इन्द्रे॑ । नि । अ॒या॒मि॒ । सोमः॑ ।
जन॑म् । न । धन्व॑न् । अ॒भि । सम् । यत् । आपः॑ । स॒त्रा । व॒वृ॒धुः॒ । हव॑नानि । य॒ज्ञैः ॥
अस्मै । एतत् । दिवि । अर्चाऽइव । मासा । मिमिक्षः । इन्द्रे । नि । अयामि । सोमः ।
जनम् । न । धन्वन् । अभि । सम् । यत् । आपः । सत्रा । ववृधुः । हवनानि । यज्ञैः ॥
ásmai ǀ etát ǀ diví ǀ arcā́-iva ǀ māsā́ ǀ mimikṣáḥ ǀ índre ǀ ní ǀ ayāmi ǀ sómaḥ ǀ
jánam ǀ ná ǀ dhánvan ǀ abhí ǀ sám ǀ yát ǀ ā́paḥ ǀ satrā́ ǀ vavṛdhuḥ ǀ hávanāni ǀ yajñáiḥ ǁ
asmai ǀ etat ǀ divi ǀ arcā-iva ǀ māsā ǀ mimikṣaḥ ǀ indre ǀ ni ǀ ayāmi ǀ somaḥ ǀ
janam ǀ na ǀ dhanvan ǀ abhi ǀ sam ǀ yat ǀ āpaḥ ǀ satrā ǀ vavṛdhuḥ ǀ havanāni ǀ yajñaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.034.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.06.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.073
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunahotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.