Ṛk 6.40.2
Saṃhitā
अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इं॑द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन् ।
तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिंदुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥
अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् |
तम् उ ते गावो नर आपो अद्रिर् इन्दुं सम् अह्यन् पीतये सम् अस्मै ||
ásya piba yásya jajñāná indra mádāya krátve ápibo virapśin ǀ
támu te gā́vo nára ā́po ádriríndum sámahyanpītáye sámasmai ǁ
asya piba yasya jajñāna indra madāya kratve apibo virapśin |
tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai ||
Padapāṭha
अस्य॑ । पि॒ब॒ । यस्य॑ । ज॒ज्ञा॒नः । इ॒न्द्र॒ । मदा॑य । क्रत्वे॑ । अपि॑बः । वि॒ऽर॒प्शि॒न् ।
तम् । ऊं॒ इति॑ । ते॒ । गावः॑ । नरः॑ । आपः॑ । अद्रिः॑ । इन्दु॑म् । सम् । अ॒ह्य॒न् । पी॒तये॑ । सम् । अ॒स्मै॒ ॥
अस्य । पिब । यस्य । जज्ञानः । इन्द्र । मदाय । क्रत्वे । अपिबः । विऽरप्शिन् ।
तम् । ऊं इति । ते । गावः । नरः । आपः । अद्रिः । इन्दुम् । सम् । अह्यन् । पीतये । सम् । अस्मै ॥
ásya ǀ piba ǀ yásya ǀ jajñānáḥ ǀ indra ǀ mádāya ǀ krátve ǀ ápibaḥ ǀ vi-rapśin ǀ
tám ǀ ūṃ íti ǀ te ǀ gā́vaḥ ǀ náraḥ ǀ ā́paḥ ǀ ádriḥ ǀ índum ǀ sám ǀ ahyan ǀ pītáye ǀ sám ǀ asmai ǁ
asya ǀ piba ǀ yasya ǀ jajñānaḥ ǀ indra ǀ madāya ǀ kratve ǀ apibaḥ ǀ vi-rapśin ǀ
tam ǀ ūṃ iti ǀ te ǀ gāvaḥ ǀ naraḥ ǀ āpaḥ ǀ adriḥ ǀ indum ǀ sam ǀ ahyan ǀ pītaye ǀ sam ǀ asmai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.040.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.12.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.101
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.