Ṛk 6.8.3
Saṃhitā
व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽंत॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ ।
वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्यं॑ ॥
व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावद् अकृणोज् ज्योतिषा तमः |
वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम् अधत्त वृष्ण्यम् ||
vyástabhnādródasī mitró ádbhuto’ntarvā́vadakṛṇojjyótiṣā támaḥ ǀ
ví cármaṇīva dhiṣáṇe avartayadvaiśvānaró víśvamadhatta vṛ́ṣṇyam ǁ
vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ |
vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam ||
Padapāṭha
वि । अ॒स्त॒भ्ना॒त् । रोद॑सी॒ इति॑ । मि॒त्रः । अद्भु॑तः । अ॒न्तः॒ऽवाव॑त् । अ॒कृ॒णो॒त् । ज्योति॑षा । तमः॑ ।
वि । चर्म॑णी इ॒वेति॒ चर्म॑णीऽइव । धि॒षणे॒ इति॑ । अ॒व॒र्त॒य॒त् । वै॒श्वा॒न॒रः । विश्व॑म् । अ॒ध॒त्त॒ । वृष्ण्य॑म् ॥
वि । अस्तभ्नात् । रोदसी इति । मित्रः । अद्भुतः । अन्तःऽवावत् । अकृणोत् । ज्योतिषा । तमः ।
वि । चर्मणी इवेति चर्मणीऽइव । धिषणे इति । अवर्तयत् । वैश्वानरः । विश्वम् । अधत्त । वृष्ण्यम् ॥
ví ǀ astabhnāt ǀ ródasī íti ǀ mitráḥ ǀ ádbhutaḥ ǀ antaḥ-vā́vat ǀ akṛṇot ǀ jyótiṣā ǀ támaḥ ǀ
ví ǀ cármaṇī ivéti cármaṇī-iva ǀ dhiṣáṇe íti ǀ avartayat ǀ vaiśvānaráḥ ǀ víśvam ǀ adhatta ǀ vṛ́ṣṇyam ǁ
vi ǀ astabhnāt ǀ rodasī iti ǀ mitraḥ ǀ adbhutaḥ ǀ antaḥ-vāvat ǀ akṛṇot ǀ jyotiṣā ǀ tamaḥ ǀ
vi ǀ carmaṇī iveti carmaṇī-iva ǀ dhiṣaṇe iti ǀ avartayat ǀ vaiśvānaraḥ ǀ viśvam ǀ adhatta ǀ vṛṣṇyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.008.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.10.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.064
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.