Ṛk 6.11.3
Saṃhitā
धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वांजन्म॑ गृण॒ते यज॑ध्यै ।
वेपि॑ष्ठो॒ अंगि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ छं॒दो भन॑ति रे॒भ इ॒ष्टौ ॥
धन्या चिद् धि त्वे धिषणा वष्टि प्र देवाञ् जन्म गृणते यजध्यै |
वेपिष्ठो अङ्गिरसां यद् ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ||
dhányā ciddhí tvé dhiṣáṇā váṣṭi prá devā́ñjánma gṛṇaté yájadhyai ǀ
vépiṣṭho áṅgirasām yáddha vípro mádhu chandó bhánati rebhá iṣṭáu ǁ
dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai |
vepiṣṭho aṅgirasāṃ yad dha vipro madhu cchando bhanati rebha iṣṭau ||
Padapāṭha
धन्या॑ । चि॒त् । हि । त्वे इति॑ । धि॒षणा॑ । वष्टि॑ । प्र । दे॒वान् । जन्म॑ । गृ॒ण॒ते । यज॑ध्यै ।
वेपि॑ष्ठः । अङ्गि॑रसाम् । यत् । ह॒ । विप्रः॑ । मधु॑ । छ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टौ ॥
धन्या । चित् । हि । त्वे इति । धिषणा । वष्टि । प्र । देवान् । जन्म । गृणते । यजध्यै ।
वेपिष्ठः । अङ्गिरसाम् । यत् । ह । विप्रः । मधु । छन्दः । भनति । रेभः । इष्टौ ॥
dhányā ǀ cit ǀ hí ǀ tvé íti ǀ dhiṣáṇā ǀ váṣṭi ǀ prá ǀ devā́n ǀ jánma ǀ gṛṇaté ǀ yájadhyai ǀ
vépiṣṭhaḥ ǀ áṅgirasām ǀ yát ǀ ha ǀ vípraḥ ǀ mádhu ǀ chandáḥ ǀ bhánati ǀ rebháḥ ǀ iṣṭáu ǁ
dhanyā ǀ cit ǀ hi ǀ tve iti ǀ dhiṣaṇā ǀ vaṣṭi ǀ pra ǀ devān ǀ janma ǀ gṛṇate ǀ yajadhyai ǀ
vepiṣṭhaḥ ǀ aṅgirasām ǀ yat ǀ ha ǀ vipraḥ ǀ madhu ǀ chandaḥ ǀ bhanati ǀ rebhaḥ ǀ iṣṭau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.011.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.13.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.085
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.