Ṛk 6.11.5
Saṃhitā
वृं॒जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।
अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ॥
वृञ्जे ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती सुवृक्तिः |
अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ||
vṛñjé ha yánnámasā barhíragnā́váyāmi srúgghṛtávatī suvṛktíḥ ǀ
ámyakṣi sádma sádane pṛthivyā́ áśrāyi yajñáḥ sū́rye ná cákṣuḥ ǁ
vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ |
amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ ||
Padapāṭha
वृ॒ञ्जे । ह॒ । यत् । नम॑सा । ब॒र्हिः । अ॒ग्नौ । अया॑मि । स्रुक् । घृ॒तऽव॑ती । सु॒ऽवृ॒क्तिः ।
अम्य॑क्षि । सद्म॑ । सद॑ने । पृ॒थि॒व्याः । अश्रा॑यि । य॒ज्ञः । सूर्ये॑ । न । चक्षुः॑ ॥
वृञ्जे । ह । यत् । नमसा । बर्हिः । अग्नौ । अयामि । स्रुक् । घृतऽवती । सुऽवृक्तिः ।
अम्यक्षि । सद्म । सदने । पृथिव्याः । अश्रायि । यज्ञः । सूर्ये । न । चक्षुः ॥
vṛñjé ǀ ha ǀ yát ǀ námasā ǀ barhíḥ ǀ agnáu ǀ áyāmi ǀ srúk ǀ ghṛtá-vatī ǀ su-vṛktíḥ ǀ
ámyakṣi ǀ sádma ǀ sádane ǀ pṛthivyā́ḥ ǀ áśrāyi ǀ yajñáḥ ǀ sū́rye ǀ ná ǀ cákṣuḥ ǁ
vṛñje ǀ ha ǀ yat ǀ namasā ǀ barhiḥ ǀ agnau ǀ ayāmi ǀ sruk ǀ ghṛta-vatī ǀ su-vṛktiḥ ǀ
amyakṣi ǀ sadma ǀ sadane ǀ pṛthivyāḥ ǀ aśrāyi ǀ yajñaḥ ǀ sūrye ǀ na ǀ cakṣuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.011.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.13.05
- Maṇḍala · Anuvāka · Ṛk
- 06.01.087
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.