Ṛk 6.11.4
Saṃhitā
अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची ।
आ॒युं न यं नम॑सा रा॒तह॑व्या अं॒जंति॑ सुप्र॒यसं॒ पंच॒ जनाः॑ ॥
अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची |
आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसम् पञ्च जनाः ||
ádidyutatsvápāko vibhā́vā́gne yájasva ródasī urūcī́ ǀ
āyúm ná yám námasā rātáhavyā añjánti suprayásam páñca jánāḥ ǁ
adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī |
āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ ||
Padapāṭha
अदि॑द्युतत् । सु । अपा॑कः । वि॒भाऽवा॑ । अग्ने॑ । यज॑स्व । रोद॑सी॒ इति॑ । उ॒रू॒ची इति॑ ।
आ॒युम् । न । यम् । नम॑सा । रा॒तऽह॑व्याः । अ॒ञ्जन्ति॑ । सु॒ऽप्र॒यस॑म् । पञ्च॑ । जनाः॑ ॥
अदिद्युतत् । सु । अपाकः । विभाऽवा । अग्ने । यजस्व । रोदसी इति । उरूची इति ।
आयुम् । न । यम् । नमसा । रातऽहव्याः । अञ्जन्ति । सुऽप्रयसम् । पञ्च । जनाः ॥
ádidyutat ǀ sú ǀ ápākaḥ ǀ vibhā́-vā ǀ ágne ǀ yájasva ǀ ródasī íti ǀ urūcī́ íti ǀ
āyúm ǀ ná ǀ yám ǀ námasā ǀ rātá-havyāḥ ǀ añjánti ǀ su-prayásam ǀ páñca ǀ jánāḥ ǁ
adidyutat ǀ su ǀ apākaḥ ǀ vibhā-vā ǀ agne ǀ yajasva ǀ rodasī iti ǀ urūcī iti ǀ
āyum ǀ na ǀ yam ǀ namasā ǀ rāta-havyāḥ ǀ añjanti ǀ su-prayasam ǀ pañca ǀ janāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.011.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.13.04
- Maṇḍala · Anuvāka · Ṛk
- 06.01.086
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.