Ṛk 6.12.3
Saṃhitā
तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् ।
अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥
तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् |
अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ||
téjiṣṭhā yásyāratírvanerā́ṭ todó ádhvanná vṛdhasānó adyaut ǀ
adroghó ná dravitā́ cetati tmánnámartyo’vartrá óṣadhīṣu ǁ
tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut |
adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu ||
Padapāṭha
तेजि॑ष्ठा । यस्य॑ । अ॒र॒तिः । व॒ने॒ऽराट् । तो॒दः । अध्व॑न् । न । वृ॒ध॒सा॒नः । अ॒द्यौ॒त् ।
अ॒द्रो॒घः । न । द्र॒वि॒ता । चे॒त॒ति॒ । त्मन् । अम॑र्त्यः । अ॒व॒र्त्रः । ओष॑धीषु ॥
तेजिष्ठा । यस्य । अरतिः । वनेऽराट् । तोदः । अध्वन् । न । वृधसानः । अद्यौत् ।
अद्रोघः । न । द्रविता । चेतति । त्मन् । अमर्त्यः । अवर्त्रः । ओषधीषु ॥
téjiṣṭhā ǀ yásya ǀ aratíḥ ǀ vane-rā́ṭ ǀ todáḥ ǀ ádhvan ǀ ná ǀ vṛdhasānáḥ ǀ adyaut ǀ
adrogháḥ ǀ ná ǀ dravitā́ ǀ cetati ǀ tmán ǀ ámartyaḥ ǀ avartráḥ ǀ óṣadhīṣu ǁ
tejiṣṭhā ǀ yasya ǀ aratiḥ ǀ vane-rāṭ ǀ todaḥ ǀ adhvan ǀ na ǀ vṛdhasānaḥ ǀ adyaut ǀ
adroghaḥ ǀ na ǀ dravitā ǀ cetati ǀ tman ǀ amartyaḥ ǀ avartraḥ ǀ oṣadhīṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.012.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.14.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.091
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.