Ṛk 6.12.1
Saṃhitā
मध्ये॒ होता॑ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै ।
अ॒यं स सू॒नुः सह॑स ऋ॒तावा॑ दू॒रात्सूर्यो॒ न शो॒चिषा॑ ततान ॥
मध्ये होता दुरोणे बर्हिषो राऌ अग्निस् तोदस्य रोदसी यजध्यै |
अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान ||
mádhye hótā duroṇé barhíṣo rā́ḷagnístodásya ródasī yájadhyai ǀ
ayám sá sūnúḥ sáhasa ṛtā́vā dūrā́tsū́ryo ná śocíṣā tatāna ǁ
madhye hotā duroṇe barhiṣo rāḷ agnis todasya rodasī yajadhyai |
ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna ||
Padapāṭha
मध्ये॑ । होता॑ । दु॒रो॒णे । ब॒र्हिषः॑ । राट् । अ॒ग्निः । तो॒दस्य॑ । रोद॑सी॒ इति॑ । यज॑ध्यै ।
अ॒यम् । सः । सू॒नुः । सह॑सः । ऋ॒तऽवा॑ । दू॒रात् । सूर्यः॑ । न । शो॒चिषा॑ । त॒ता॒न॒ ॥
मध्ये । होता । दुरोणे । बर्हिषः । राट् । अग्निः । तोदस्य । रोदसी इति । यजध्यै ।
अयम् । सः । सूनुः । सहसः । ऋतऽवा । दूरात् । सूर्यः । न । शोचिषा । ततान ॥
mádhye ǀ hótā ǀ duroṇé ǀ barhíṣaḥ ǀ rā́ṭ ǀ agníḥ ǀ todásya ǀ ródasī íti ǀ yájadhyai ǀ
ayám ǀ sáḥ ǀ sūnúḥ ǀ sáhasaḥ ǀ ṛtá-vā ǀ dūrā́t ǀ sū́ryaḥ ǀ ná ǀ śocíṣā ǀ tatāna ǁ
madhye ǀ hotā ǀ duroṇe ǀ barhiṣaḥ ǀ rāṭ ǀ agniḥ ǀ todasya ǀ rodasī iti ǀ yajadhyai ǀ
ayam ǀ saḥ ǀ sūnuḥ ǀ sahasaḥ ǀ ṛta-vā ǀ dūrāt ǀ sūryaḥ ǀ na ǀ śociṣā ǀ tatāna ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.012.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.14.01
- Maṇḍala · Anuvāka · Ṛk
- 06.01.089
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.