Ṛk 3.30.1
Saṃhitā
इ॒च्छंति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वंति॒ सोमं॒ दध॑ति॒ प्रयां॑सि ।
तिति॑क्षंते अ॒भिश॑स्तिं॒ जना॑ना॒मिंद्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि |
तितिक्षन्ते अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ||
icchánti tvā somyā́saḥ sákhāyaḥ sunvánti sómam dádhati práyāṃsi ǀ
títikṣante abhíśastim jánānāmíndra tvádā́ káścaná hí praketáḥ ǁ
icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi |
titikṣante abhiśastiṃ janānām indra tvad ā kaś cana hi praketaḥ ||
Padapāṭha
इ॒च्छन्ति॑ । त्वा॒ । सो॒म्यासः॑ । सखा॑यः । सु॒न्वन्ति॑ । सोम॑म् । दध॑ति । प्रयां॑सि ।
तिति॑क्षन्ते । अ॒भिऽश॑स्तिम् । जना॑नाम् । इन्द्र॑ । त्वत् । आ । कः । च॒न । हि । प्र॒ऽके॒तः ॥
इच्छन्ति । त्वा । सोम्यासः । सखायः । सुन्वन्ति । सोमम् । दधति । प्रयांसि ।
तितिक्षन्ते । अभिऽशस्तिम् । जनानाम् । इन्द्र । त्वत् । आ । कः । चन । हि । प्रऽकेतः ॥
icchánti ǀ tvā ǀ somyā́saḥ ǀ sákhāyaḥ ǀ sunvánti ǀ sómam ǀ dádhati ǀ práyāṃsi ǀ
títikṣante ǀ abhí-śastim ǀ jánānām ǀ índra ǀ tvát ǀ ā́ ǀ káḥ ǀ caná ǀ hí ǀ pra-ketáḥ ǁ
icchanti ǀ tvā ǀ somyāsaḥ ǀ sakhāyaḥ ǀ sunvanti ǀ somam ǀ dadhati ǀ prayāṃsi ǀ
titikṣante ǀ abhi-śastim ǀ janānām ǀ indra ǀ tvat ǀ ā ǀ kaḥ ǀ cana ǀ hi ǀ pra-ketaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.01.01
- Maṇḍala · Anuvāka · Ṛk
- 03.03.001
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.