Ṛk 3.30.11
Saṃhitā
एको॒ द्वे वसु॑मती समी॒ची इंद्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्यां ।
उ॒तांतरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ॥
एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत द्याम् |
उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर वाजान् ||
éko dvé vásumatī samīcī́ índra ā́ paprau pṛthivī́mutá dyā́m ǀ
utā́ntárikṣādabhí naḥ samīká iṣó rathī́ḥ sayújaḥ śūra vā́jān ǁ
eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām |
utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān ||
Padapāṭha
एकः॑ । द्वे इति॑ । वसु॑मती॒ इति॒ वसु॑ऽमती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । इन्द्रः॑ । आ । प॒प्रौ॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
उ॒त । अ॒न्तरि॑क्षात् । अ॒भि । नः॒ । स॒म्ऽई॒के । इ॒षः । र॒थीः । स॒ऽयुजः॑ । शू॒र॒ । वाजा॑न् ॥
एकः । द्वे इति । वसुमती इति वसुऽमती । समीची इति सम्ऽईची । इन्द्रः । आ । पप्रौ । पृथिवीम् । उत । द्याम् ।
उत । अन्तरिक्षात् । अभि । नः । सम्ऽईके । इषः । रथीः । सऽयुजः । शूर । वाजान् ॥
ékaḥ ǀ dvé íti ǀ vásumatī íti vásu-matī ǀ samīcī́ íti sam-īcī́ ǀ índraḥ ǀ ā́ ǀ paprau ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ
utá ǀ antárikṣāt ǀ abhí ǀ naḥ ǀ sam-īké ǀ iṣáḥ ǀ rathī́ḥ ǀ sa-yújaḥ ǀ śūra ǀ vā́jān ǁ
ekaḥ ǀ dve iti ǀ vasumatī iti vasu-matī ǀ samīcī iti sam-īcī ǀ indraḥ ǀ ā ǀ paprau ǀ pṛthivīm ǀ uta ǀ dyām ǀ
uta ǀ antarikṣāt ǀ abhi ǀ naḥ ǀ sam-īke ǀ iṣaḥ ǀ rathīḥ ǀ sa-yujaḥ ǀ śūra ǀ vājān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.03.01
- Maṇḍala · Anuvāka · Ṛk
- 03.03.011
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.