Ṛk 3.30.2
Saṃhitā
न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्यां ।
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥
न ते दूरे परमा चिद् रजांस्य् आ तु प्र याहि हरिवो हरिभ्याम् |
स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ||
ná te dūré paramā́ cidrájāṃsyā́ tú prá yāhi harivo háribhyām ǀ
sthirā́ya vṛ́ṣṇe sávanā kṛtémā́ yuktā́ grā́vāṇaḥ samidhāné agnáu ǁ
na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām |
sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau ||
Padapāṭha
न । ते॒ । दू॒रे । प॒र॒मा । चि॒त् । रजां॑सि । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् ।
स्थि॒राय॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । यु॒क्ताः । ग्रावा॑णः । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ ॥
न । ते । दूरे । परमा । चित् । रजांसि । आ । तु । प्र । याहि । हरिऽवः । हरिऽभ्याम् ।
स्थिराय । वृष्णे । सवना । कृता । इमा । युक्ताः । ग्रावाणः । सम्ऽइधाने । अग्नौ ॥
ná ǀ te ǀ dūré ǀ paramā́ ǀ cit ǀ rájāṃsi ǀ ā́ ǀ tú ǀ prá ǀ yāhi ǀ hari-vaḥ ǀ hári-bhyām ǀ
sthirā́ya ǀ vṛ́ṣṇe ǀ sávanā ǀ kṛtā́ ǀ imā́ ǀ yuktā́ḥ ǀ grā́vāṇaḥ ǀ sam-idhāné ǀ agnáu ǁ
na ǀ te ǀ dūre ǀ paramā ǀ cit ǀ rajāṃsi ǀ ā ǀ tu ǀ pra ǀ yāhi ǀ hari-vaḥ ǀ hari-bhyām ǀ
sthirāya ǀ vṛṣṇe ǀ savanā ǀ kṛtā ǀ imā ǀ yuktāḥ ǀ grāvāṇaḥ ǀ sam-idhāne ǀ agnau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.01.02
- Maṇḍala · Anuvāka · Ṛk
- 03.03.002
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.