Ṛk 3.30.13
Saṃhitā
दिदृ॑क्षंत उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कं ।
विश्वे॑ जानंति महि॒ना यदागा॒दिंद्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥
दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम् अनीकम् |
विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता पुरूणि ||
dídṛkṣanta uṣáso yā́mannaktórvivásvatyā máhi citrámánīkam ǀ
víśve jānanti mahinā́ yádā́gādíndrasya kárma súkṛtā purū́ṇi ǁ
didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam |
viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi ||
Padapāṭha
दिदृ॑क्षन्ते । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वि॒वस्व॑त्याः । महि॑ । चि॒त्रम् । अनी॑कम् ।
विश्वे॑ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा॑त् । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ॥
दिदृक्षन्ते । उषसः । यामन् । अक्तोः । विवस्वत्याः । महि । चित्रम् । अनीकम् ।
विश्वे । जानन्ति । महिना । यत् । आ । अगात् । इन्द्रस्य । कर्म । सुऽकृता । पुरूणि ॥
dídṛkṣante ǀ uṣásaḥ ǀ yā́man ǀ aktóḥ ǀ vivásvatyāḥ ǀ máhi ǀ citrám ǀ ánīkam ǀ
víśve ǀ jānanti ǀ mahinā́ ǀ yát ǀ ā́ ǀ ágāt ǀ índrasya ǀ kárma ǀ sú-kṛtā ǀ purū́ṇi ǁ
didṛkṣante ǀ uṣasaḥ ǀ yāman ǀ aktoḥ ǀ vivasvatyāḥ ǀ mahi ǀ citram ǀ anīkam ǀ
viśve ǀ jānanti ǀ mahinā ǀ yat ǀ ā ǀ agāt ǀ indrasya ǀ karma ǀ su-kṛtā ǀ purūṇi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.03.03
- Maṇḍala · Anuvāka · Ṛk
- 03.03.013
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.