Ṛk 3.30.16
Saṃhitā
सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठां ।
वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्रं॒धय॑स्व ॥
सं घोषः शृण्वे ऽवमैर् अमित्रैर् जही न्य् एष्व् अशनिं तपिष्ठाम् |
वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व ||
sám ghóṣaḥ śṛṇve’vamáiramítrairjahī́ nyéṣvaśánim tápiṣṭhām ǀ
vṛścémadhástādví rujā sáhasva jahí rákṣo maghavanrandháyasva ǁ
saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām |
vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva ||
Padapāṭha
सम् । घोषः॑ । शृ॒ण्वे॒ । अ॒व॒मैः । अ॒मित्रैः॑ । ज॒हि । नि । ए॒षु॒ । अ॒शनि॑म् । तपि॑ष्ठाम् ।
वृ॒श्च । ई॒म् । अ॒धस्ता॑त् । वि । रु॒ज॒ । सह॑स्व । ज॒हि । रक्षः॑ । म॒घ॒ऽव॒न् । र॒न्धय॑स्व ॥
सम् । घोषः । शृण्वे । अवमैः । अमित्रैः । जहि । नि । एषु । अशनिम् । तपिष्ठाम् ।
वृश्च । ईम् । अधस्तात् । वि । रुज । सहस्व । जहि । रक्षः । मघऽवन् । रन्धयस्व ॥
sám ǀ ghóṣaḥ ǀ śṛṇve ǀ avamáiḥ ǀ amítraiḥ ǀ jahí ǀ ní ǀ eṣu ǀ aśánim ǀ tápiṣṭhām ǀ
vṛścá ǀ īm ǀ adhástāt ǀ ví ǀ ruja ǀ sáhasva ǀ jahí ǀ rákṣaḥ ǀ magha-van ǀ randháyasva ǁ
sam ǀ ghoṣaḥ ǀ śṛṇve ǀ avamaiḥ ǀ amitraiḥ ǀ jahi ǀ ni ǀ eṣu ǀ aśanim ǀ tapiṣṭhām ǀ
vṛśca ǀ īm ǀ adhastāt ǀ vi ǀ ruja ǀ sahasva ǀ jahi ǀ rakṣaḥ ǀ magha-van ǀ randhayasva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.04.01
- Maṇḍala · Anuvāka · Ṛk
- 03.03.016
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.