Ṛk 3.30.18
Saṃhitā
स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः ।
रा॒यो वं॒तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इंद्र प्र॒जावा॑न् ॥
स्वस्तये वाजिभिश् च प्रणेतः सं यन् महीर् इष आसत्सि पूर्वीः |
रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ||
svastáye vājíbhiśca praṇetaḥ sám yánmahī́ríṣa āsátsi pūrvī́ḥ ǀ
rāyó vantā́ro bṛhatáḥ syāmāsmé astu bhága indra prajā́vān ǁ
svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ |
rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān ||
Padapāṭha
स्व॒स्तये॑ । वा॒जिऽभिः॑ । च॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । सम् । यत् । म॒हीः । इषः॑ । आ॒ऽसत्सि॑ । पू॒र्वीः ।
रा॒यः । व॒न्तारः॑ । बृ॒ह॒तः । स्या॒म॒ । अ॒स्मे इति॑ । अ॒स्तु॒ । भगः॑ । इ॒न्द्र॒ । प्र॒जाऽवा॑न् ॥
स्वस्तये । वाजिऽभिः । च । प्रनेतरिति प्रऽनेतः । सम् । यत् । महीः । इषः । आऽसत्सि । पूर्वीः ।
रायः । वन्तारः । बृहतः । स्याम । अस्मे इति । अस्तु । भगः । इन्द्र । प्रजाऽवान् ॥
svastáye ǀ vājí-bhiḥ ǀ ca ǀ pranetaríti pra-netaḥ ǀ sám ǀ yát ǀ mahī́ḥ ǀ íṣaḥ ǀ ā-sátsi ǀ pūrvī́ḥ ǀ
rāyáḥ ǀ vantā́raḥ ǀ bṛhatáḥ ǀ syāma ǀ asmé íti ǀ astu ǀ bhágaḥ ǀ indra ǀ prajā́-vān ǁ
svastaye ǀ vāji-bhiḥ ǀ ca ǀ pranetariti pra-netaḥ ǀ sam ǀ yat ǀ mahīḥ ǀ iṣaḥ ǀ ā-satsi ǀ pūrvīḥ ǀ
rāyaḥ ǀ vantāraḥ ǀ bṛhataḥ ǀ syāma ǀ asme iti ǀ astu ǀ bhagaḥ ǀ indra ǀ prajā-vān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.04.03
- Maṇḍala · Anuvāka · Ṛk
- 03.03.018
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.