Ṛk 3.30.4
Saṃhitā
त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः ।
तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥
त्वं हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि जिघ्नमानः |
तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः ||
tvám hí ṣmā cyāváyannácyutānyéko vṛtrā́ cárasi jíghnamānaḥ ǀ
táva dyā́vāpṛthivī́ párvatāsó’nu vratā́ya nímiteva tasthuḥ ǁ
tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ |
tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ ||
Padapāṭha
त्वम् । हि । स्म॒ । च्य॒वय॑न् । अच्यु॑तानि । एकः॑ । वृ॒त्रा । चर॑सि । जिघ्न॑मानः ।
तव॑ । द्यावा॑पृथि॒वी इति॑ । पर्व॑तासः । अनु॑ । व्र॒ताय॑ । निमि॑ताऽइव । त॒स्थुः॒ ॥
त्वम् । हि । स्म । च्यवयन् । अच्युतानि । एकः । वृत्रा । चरसि । जिघ्नमानः ।
तव । द्यावापृथिवी इति । पर्वतासः । अनु । व्रताय । निमिताऽइव । तस्थुः ॥
tvám ǀ hí ǀ sma ǀ cyaváyan ǀ ácyutāni ǀ ékaḥ ǀ vṛtrā́ ǀ cárasi ǀ jíghnamānaḥ ǀ
táva ǀ dyā́vāpṛthivī́ íti ǀ párvatāsaḥ ǀ ánu ǀ vratā́ya ǀ nímitā-iva ǀ tasthuḥ ǁ
tvam ǀ hi ǀ sma ǀ cyavayan ǀ acyutāni ǀ ekaḥ ǀ vṛtrā ǀ carasi ǀ jighnamānaḥ ǀ
tava ǀ dyāvāpṛthivī iti ǀ parvatāsaḥ ǀ anu ǀ vratāya ǀ nimitā-iva ǀ tasthuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.01.04
- Maṇḍala · Anuvāka · Ṛk
- 03.03.004
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.