Ṛk 3.30.14
Saṃhitā
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः ।
विश्वं॒ स्वाद्म॒ संभृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिंद्रो॒ अद॑धा॒द्भोज॑नाय ॥
महि ज्योतिर् निहितं वक्षणास्व् आमा पक्वं चरति बिभ्रती गौः |
विश्वं स्वाद्म सम्भृतम् उस्रियायां यत् सीम् इन्द्रो अदधाद् भोजनाय ||
máhi jyótirníhitam vakṣáṇāsvāmā́ pakvám carati bíbhratī gáuḥ ǀ
víśvam svā́dma sámbhṛtamusríyāyām yátsīmíndro ádadhādbhójanāya ǁ
mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ |
viśvaṃ svādma sambhṛtam usriyāyāṃ yat sīm indro adadhād bhojanāya ||
Padapāṭha
महि॑ । ज्योतिः॑ । निऽहि॑तम् । व॒क्षणा॑सु । आ॒मा । प॒क्वम् । च॒र॒ति॒ । बिभ्र॑ती । गौः ।
विश्व॑म् । स्वाद्म॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । यत् । सी॒म् । इन्द्रः॑ । अद॑धात् । भोज॑नाय ॥
महि । ज्योतिः । निऽहितम् । वक्षणासु । आमा । पक्वम् । चरति । बिभ्रती । गौः ।
विश्वम् । स्वाद्म । सम्ऽभृतम् । उस्रियायाम् । यत् । सीम् । इन्द्रः । अदधात् । भोजनाय ॥
máhi ǀ jyótiḥ ǀ ní-hitam ǀ vakṣáṇāsu ǀ āmā́ ǀ pakvám ǀ carati ǀ bíbhratī ǀ gáuḥ ǀ
víśvam ǀ svā́dma ǀ sám-bhṛtam ǀ usríyāyām ǀ yát ǀ sīm ǀ índraḥ ǀ ádadhāt ǀ bhójanāya ǁ
mahi ǀ jyotiḥ ǀ ni-hitam ǀ vakṣaṇāsu ǀ āmā ǀ pakvam ǀ carati ǀ bibhratī ǀ gauḥ ǀ
viśvam ǀ svādma ǀ sam-bhṛtam ǀ usriyāyām ǀ yat ǀ sīm ǀ indraḥ ǀ adadhāt ǀ bhojanāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.030.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.03.04
- Maṇḍala · Anuvāka · Ṛk
- 03.03.014
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.