Ṛk 6.28.3
Saṃhitā
न ता न॑शंति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।
दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥
न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति |
देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ||
ná tā́ naśanti ná dabhāti táskaro nā́sāmāmitró vyáthirā́ dadharṣati ǀ
devā́ṃśca yā́bhiryájate dádāti ca jyógíttā́bhiḥ sacate gópatiḥ sahá ǁ
na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati |
devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha ||
Padapāṭha
न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ ।
दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥
न । ताः । नशन्ति । न । दभाति । तस्करः । न । आसाम् । आमित्रः । व्यथिः । आ । दधर्षति ।
देवान् । च । याभिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गोऽपतिः । सह ॥
ná ǀ tā́ḥ ǀ naśanti ǀ ná ǀ dabhāti ǀ táskaraḥ ǀ ná ǀ āsām ǀ āmitráḥ ǀ vyáthiḥ ǀ ā́ ǀ dadharṣati ǀ
devā́n ǀ ca ǀ yā́bhiḥ ǀ yájate ǀ dádāti ǀ ca ǀ jyók ǀ ít ǀ tā́bhiḥ ǀ sacate ǀ gó-patiḥ ǀ sahá ǁ
na ǀ tāḥ ǀ naśanti ǀ na ǀ dabhāti ǀ taskaraḥ ǀ na ǀ āsām ǀ āmitraḥ ǀ vyathiḥ ǀ ā ǀ dadharṣati ǀ
devān ǀ ca ǀ yābhiḥ ǀ yajate ǀ dadāti ǀ ca ǀ jyok ǀ it ǀ tābhiḥ ǀ sacate ǀ go-patiḥ ǀ saha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.028.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.25.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.038
- Devatā देवता
- 1, 3-7: Gāvaḥ; 2: Gāvaḥ Or Indra; 8: Gāvaḥ Or Indra (D); Gāvaḥ (C)
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī, Anuṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.