Ṛk 6.70.6
Saṃhitā
ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा ।
सं॒र॒रा॒णे रोद॑सी वि॒श्वशं॑भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वतां ॥
ऊर्जं नो द्यौश् च पृथिवी च पिन्वताम् पिता माता विश्वविदा सुदंससा |
संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिम् अस्मे सम् इन्वताम् ||
ū́rjam no dyáuśca pṛthivī́ ca pinvatām pitā́ mātā́ viśvavídā sudáṃsasā ǀ
saṃrarāṇé ródasī viśváśambhuvā saním vā́jam rayímasmé sáminvatām ǁ
ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā |
saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayim asme sam invatām ||
Padapāṭha
ऊर्ज॑म् । नः॒ । द्यौः । च॒ । पृ॒थि॒वी । च॒ । पि॒न्व॒ता॒म् । पि॒ता । मा॒ता । वि॒श्व॒ऽविदा॑ । सु॒ऽदंस॑सा ।
सं॒र॒रा॒णे इति॑ स॒म्ऽर॒रा॒णे । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । स॒निम् । वाज॑म् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒ता॒म् ॥
ऊर्जम् । नः । द्यौः । च । पृथिवी । च । पिन्वताम् । पिता । माता । विश्वऽविदा । सुऽदंससा ।
संरराणे इति सम्ऽरराणे । रोदसी इति । विश्वऽशम्भुवा । सनिम् । वाजम् । रयिम् । अस्मे इति । सम् । इन्वताम् ॥
ū́rjam ǀ naḥ ǀ dyáuḥ ǀ ca ǀ pṛthivī́ ǀ ca ǀ pinvatām ǀ pitā́ ǀ mātā́ ǀ viśva-vídā ǀ su-dáṃsasā ǀ
saṃrarāṇé íti sam-rarāṇé ǀ ródasī íti ǀ viśvá-śambhuvā ǀ saním ǀ vā́jam ǀ rayím ǀ asmé íti ǀ sám ǀ invatām ǁ
ūrjam ǀ naḥ ǀ dyauḥ ǀ ca ǀ pṛthivī ǀ ca ǀ pinvatām ǀ pitā ǀ mātā ǀ viśva-vidā ǀ su-daṃsasā ǀ
saṃrarāṇe iti sam-rarāṇe ǀ rodasī iti ǀ viśva-śambhuvā ǀ sanim ǀ vājam ǀ rayim ǀ asme iti ǀ sam ǀ invatām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.070.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.14.06
- Maṇḍala · Anuvāka · Ṛk
- 06.06.081
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.