Ṛk 6.4.3
Saṃhitā
द्यावो॒ न यस्य॑ प॒नयं॒त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।
वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥
द्यावो न यस्य पनयन्त्य् अभ्वम् भासांसि वस्ते सूर्यो न शुक्रः |
वि य इनोत्य् अजरः पावको ऽश्नस्य चिच् छिश्नथत् पूर्व्याणि ||
dyā́vo ná yásya panáyantyábhvam bhā́sāṃsi vaste sū́ryo ná śukráḥ ǀ
ví yá inótyajáraḥ pāvakó’śnasya cicchiśnathatpūrvyā́ṇi ǁ
dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ |
vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi ||
Padapāṭha
द्यावः॑ । न । यस्य॑ । प॒नय॑न्ति । अभ्व॑म् । भासां॑सि । व॒स्ते॒ । सूर्यः॑ । न । शु॒क्रः ।
वि । यः । इ॒नोति॑ । अ॒जरः॑ । पा॒व॒कः । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥
द्यावः । न । यस्य । पनयन्ति । अभ्वम् । भासांसि । वस्ते । सूर्यः । न । शुक्रः ।
वि । यः । इनोति । अजरः । पावकः । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥
dyā́vaḥ ǀ ná ǀ yásya ǀ panáyanti ǀ ábhvam ǀ bhā́sāṃsi ǀ vaste ǀ sū́ryaḥ ǀ ná ǀ śukráḥ ǀ
ví ǀ yáḥ ǀ inóti ǀ ajáraḥ ǀ pāvakáḥ ǀ áśnasya ǀ cit ǀ śiśnathat ǀ pūrvyā́ṇi ǁ
dyāvaḥ ǀ na ǀ yasya ǀ panayanti ǀ abhvam ǀ bhāsāṃsi ǀ vaste ǀ sūryaḥ ǀ na ǀ śukraḥ ǀ
vi ǀ yaḥ ǀ inoti ǀ ajaraḥ ǀ pāvakaḥ ǀ aśnasya ǀ cit ǀ śiśnathat ǀ pūrvyāṇi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.004.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.05.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.035
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.