Ṛk 6.4.5
Saṃhitā
निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।
तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ॥
नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न राष्ट्र्य् अत्य् एत्य् अक्तून् |
तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः परिह्रुत् ||
nítikti yó vāraṇámánnamátti vāyúrná rā́ṣṭryátyetyaktū́n ǀ
turyā́ma yásta ādíśāmárātīrátyo ná hrútaḥ pátataḥ parihrút ǁ
nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn |
turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut ||
Padapāṭha
निऽति॑क्ति । यः । वा॒र॒णम् । अन्न॑म् । अत्ति॑ । वा॒युः । न । राष्ट्री॑ । अति॑ । ए॒ति॒ । अ॒क्तून् ।
तु॒र्याम॑ । यः । ते॒ । आ॒ऽदिशा॑म् । अरा॑तीः । अत्यः॑ । न । ह्रुतः॑ । पत॑तः । प॒रि॒ऽह्रुत् ॥
निऽतिक्ति । यः । वारणम् । अन्नम् । अत्ति । वायुः । न । राष्ट्री । अति । एति । अक्तून् ।
तुर्याम । यः । ते । आऽदिशाम् । अरातीः । अत्यः । न । ह्रुतः । पततः । परिऽह्रुत् ॥
ní-tikti ǀ yáḥ ǀ vāraṇám ǀ ánnam ǀ átti ǀ vāyúḥ ǀ ná ǀ rā́ṣṭrī ǀ áti ǀ eti ǀ aktū́n ǀ
turyā́ma ǀ yáḥ ǀ te ǀ ā-díśām ǀ árātīḥ ǀ átyaḥ ǀ ná ǀ hrútaḥ ǀ pátataḥ ǀ pari-hrút ǁ
ni-tikti ǀ yaḥ ǀ vāraṇam ǀ annam ǀ atti ǀ vāyuḥ ǀ na ǀ rāṣṭrī ǀ ati ǀ eti ǀ aktūn ǀ
turyāma ǀ yaḥ ǀ te ǀ ā-diśām ǀ arātīḥ ǀ atyaḥ ǀ na ǀ hrutaḥ ǀ patataḥ ǀ pari-hrut ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.004.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.05.05
- Maṇḍala · Anuvāka · Ṛk
- 06.01.037
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.