Ṛk 6.4.4
Saṃhitā
व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्नं॑ ।
स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्यं॒तः ॥
वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् |
स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ||
vadmā́ hí sūno ásyadmasádvā cakré agnírjanúṣā́jmā́nnam ǀ
sá tvám na ūrjasana ū́rjam dhā rā́jeva jeravṛké kṣeṣyantáḥ ǁ
vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam |
sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ ||
Padapāṭha
व॒द्मा । हि । सू॒नो॒ इति॑ । असि॑ । अ॒द्म॒ऽसद्वा॑ । च॒क्रे । अ॒ग्निः । ज॒नुषा॑ । अज्म॑ । अन्न॑म् ।
सः । त्वम् । नः॒ । ऊ॒र्ज॒ऽस॒ने॒ । ऊर्ज॑म् । धाः॒ । राजा॑ऽइव । जेः॒ । अ॒वृ॒के । क्षे॒षि॒ । अ॒न्तरिति॑ ॥
वद्मा । हि । सूनो इति । असि । अद्मऽसद्वा । चक्रे । अग्निः । जनुषा । अज्म । अन्नम् ।
सः । त्वम् । नः । ऊर्जऽसने । ऊर्जम् । धाः । राजाऽइव । जेः । अवृके । क्षेषि । अन्तरिति ॥
vadmā́ ǀ hí ǀ sūno íti ǀ ási ǀ adma-sádvā ǀ cakré ǀ agníḥ ǀ janúṣā ǀ ájma ǀ ánnam ǀ
sáḥ ǀ tvám ǀ naḥ ǀ ūrja-sane ǀ ū́rjam ǀ dhāḥ ǀ rā́jā-iva ǀ jeḥ ǀ avṛké ǀ kṣeṣi ǀ antáríti ǁ
vadmā ǀ hi ǀ sūno iti ǀ asi ǀ adma-sadvā ǀ cakre ǀ agniḥ ǀ januṣā ǀ ajma ǀ annam ǀ
saḥ ǀ tvam ǀ naḥ ǀ ūrja-sane ǀ ūrjam ǀ dhāḥ ǀ rājā-iva ǀ jeḥ ǀ avṛke ǀ kṣeṣi ǀ antariti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.004.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.05.04
- Maṇḍala · Anuvāka · Ṛk
- 06.01.036
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.