Ṛk 6.68.3
Saṃhitā
ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिंद्रा॒वरु॑णा चका॒ना ।
वज्रे॑णा॒न्यः शव॑सा॒ हंति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्रः॑ ॥
ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा चकाना |
वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्य् अन्यो वृजनेषु विप्रः ||
tā́ gṛṇīhi namasyébhiḥ śūṣáiḥ sumnébhiríndrāváruṇā cakānā́ ǀ
vájreṇānyáḥ śávasā hánti vṛtrám síṣaktyanyó vṛjáneṣu vípraḥ ǁ
tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā |
vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ ||
Padapāṭha
ता । गृ॒णी॒हि॒ । न॒म॒स्ये॑भिः । शू॒षैः । सु॒म्नेभिः॑ । इन्द्रा॒वरु॑णा । च॒का॒ना ।
वज्रे॑ण । अ॒न्यः । शव॑सा । हन्ति॑ । वृ॒त्रम् । सिस॑क्ति । अ॒न्यः । वृ॒जने॑षु । विप्रः॑ ॥
ता । गृणीहि । नमस्येभिः । शूषैः । सुम्नेभिः । इन्द्रावरुणा । चकाना ।
वज्रेण । अन्यः । शवसा । हन्ति । वृत्रम् । सिसक्ति । अन्यः । वृजनेषु । विप्रः ॥
tā́ ǀ gṛṇīhi ǀ namasyébhiḥ ǀ śūṣáiḥ ǀ sumnébhiḥ ǀ índrāváruṇā ǀ cakānā́ ǀ
vájreṇa ǀ anyáḥ ǀ śávasā ǀ hánti ǀ vṛtrám ǀ sísakti ǀ anyáḥ ǀ vṛjáneṣu ǀ vípraḥ ǁ
tā ǀ gṛṇīhi ǀ namasyebhiḥ ǀ śūṣaiḥ ǀ sumnebhiḥ ǀ indrāvaruṇā ǀ cakānā ǀ
vajreṇa ǀ anyaḥ ǀ śavasā ǀ hanti ǀ vṛtram ǀ sisakti ǀ anyaḥ ǀ vṛjaneṣu ǀ vipraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.068.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.11.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.059
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.