Ṛk 6.68.5
Saṃhitā
स इत्सु॒दानुः॒ स्ववाँ॑ ऋ॒तावेंद्रा॒ यो वां॑ वरुण॒ दाश॑ति॒ त्मन् ।
इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ॥
स इत् सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् |
इषा स द्विषस् तरेद् दास्वान् वंसद् रयिं रयिवतश् च जनान् ||
sá ítsudā́nuḥ svávām̐ ṛtā́véndrā yó vām varuṇa dā́śati tmán ǀ
iṣā́ sá dviṣástareddā́svānváṃsadrayím rayivátaśca jánān ǁ
sa it sudānuḥ svavāṃ ṛtāvendrā yo vāṃ varuṇa dāśati tman |
iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān ||
Padapāṭha
सः । इत् । सु॒ऽदानुः॑ । स्वऽवा॑न् । ऋ॒तऽवा॑ । इन्द्रा॑ । यः । वा॒म् । व॒रु॒णा॒ । दाश॑ति । त्मन् ।
इ॒षा । सः । द्वि॒षः । त॒रे॒त् । दास्वा॑न् । वंस॑त् । र॒यिम् । र॒यि॒ऽवतः॑ । च॒ । जना॑न् ॥
सः । इत् । सुऽदानुः । स्वऽवान् । ऋतऽवा । इन्द्रा । यः । वाम् । वरुणा । दाशति । त्मन् ।
इषा । सः । द्विषः । तरेत् । दास्वान् । वंसत् । रयिम् । रयिऽवतः । च । जनान् ॥
sáḥ ǀ ít ǀ su-dā́nuḥ ǀ svá-vān ǀ ṛtá-vā ǀ índrā ǀ yáḥ ǀ vām ǀ varuṇā ǀ dā́śati ǀ tmán ǀ
iṣā́ ǀ sáḥ ǀ dviṣáḥ ǀ taret ǀ dā́svān ǀ váṃsat ǀ rayím ǀ rayi-vátaḥ ǀ ca ǀ jánān ǁ
saḥ ǀ it ǀ su-dānuḥ ǀ sva-vān ǀ ṛta-vā ǀ indrā ǀ yaḥ ǀ vām ǀ varuṇā ǀ dāśati ǀ tman ǀ
iṣā ǀ saḥ ǀ dviṣaḥ ǀ taret ǀ dāsvān ǀ vaṃsat ǀ rayim ǀ rayi-vataḥ ǀ ca ǀ janān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.068.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.11.05
- Maṇḍala · Anuvāka · Ṛk
- 06.06.061
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.