Ṛk 6.68.6
Saṃhitā
यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मंतं पुरु॒क्षुं ।
अ॒स्मे स इं॑द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥
यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तम् पुरुक्षुम् |
अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम् अशस्तीः ||
yám yuvám dāśvádhvarāya devā rayím dhatthó vásumantam purukṣúm ǀ
asmé sá indrāvaruṇāvápi ṣyātprá yó bhanákti vanúṣāmáśastīḥ ǁ
yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum |
asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ ||
Padapāṭha
यम् । यु॒वम् । दा॒शुऽअ॑ध्वराय । दे॒वा॒ । र॒यिम् । ध॒त्थः । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।
अ॒स्मे इति॑ । सः । इ॒न्द्रा॒व॒रु॒णौ॒ । अपि॑ । स्या॒त् । प्र । यः । भ॒नक्ति॑ । व॒नुषा॑म् । अश॑स्तीः ॥
यम् । युवम् । दाशुऽअध्वराय । देवा । रयिम् । धत्थः । वसुऽमन्तम् । पुरुऽक्षुम् ।
अस्मे इति । सः । इन्द्रावरुणौ । अपि । स्यात् । प्र । यः । भनक्ति । वनुषाम् । अशस्तीः ॥
yám ǀ yuvám ǀ dāśú-adhvarāya ǀ devā ǀ rayím ǀ dhattháḥ ǀ vásu-mantam ǀ puru-kṣúm ǀ
asmé íti ǀ sáḥ ǀ indrāvaruṇau ǀ ápi ǀ syāt ǀ prá ǀ yáḥ ǀ bhanákti ǀ vanúṣām ǀ áśastīḥ ǁ
yam ǀ yuvam ǀ dāśu-adhvarāya ǀ devā ǀ rayim ǀ dhatthaḥ ǀ vasu-mantam ǀ puru-kṣum ǀ
asme iti ǀ saḥ ǀ indrāvaruṇau ǀ api ǀ syāt ǀ pra ǀ yaḥ ǀ bhanakti ǀ vanuṣām ǀ aśastīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.068.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.12.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.062
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.