Ṛk 6.68.7
Saṃhitā
उ॒त नः॑ सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इंद्रावरुणा र॒यिः ष्या॑त् ।
येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥
उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् |
येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते ततुरिः ||
utá naḥ sutrātró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt ǀ
yéṣām śúṣmaḥ pṛ́tanāsu sāhvā́nprá sadyó dyumnā́ tiráte táturiḥ ǁ
uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt |
yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ ||
Padapāṭha
उ॒त । नः॒ । सु॒ऽत्रा॒त्रः । दे॒वऽगो॑पाः । सू॒रिऽभ्यः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । र॒यिः । स्या॒त् ।
येषा॑म् । शुष्मः॑ । पृत॑नासु । स॒ह्वान् । प्र । स॒द्यः । द्यु॒म्ना । ति॒रते॑ । ततु॑रिः ॥
उत । नः । सुऽत्रात्रः । देवऽगोपाः । सूरिऽभ्यः । इन्द्रावरुणा । रयिः । स्यात् ।
येषाम् । शुष्मः । पृतनासु । सह्वान् । प्र । सद्यः । द्युम्ना । तिरते । ततुरिः ॥
utá ǀ naḥ ǀ su-trātráḥ ǀ devá-gopāḥ ǀ sūrí-bhyaḥ ǀ indrāvaruṇā ǀ rayíḥ ǀ syāt ǀ
yéṣām ǀ śúṣmaḥ ǀ pṛ́tanāsu ǀ sahvā́n ǀ prá ǀ sadyáḥ ǀ dyumnā́ ǀ tiráte ǀ táturiḥ ǁ
uta ǀ naḥ ǀ su-trātraḥ ǀ deva-gopāḥ ǀ sūri-bhyaḥ ǀ indrāvaruṇā ǀ rayiḥ ǀ syāt ǀ
yeṣām ǀ śuṣmaḥ ǀ pṛtanāsu ǀ sahvān ǀ pra ǀ sadyaḥ ǀ dyumnā ǀ tirate ǀ taturiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.068.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.12.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.063
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.