Ṛk 6.68.9
Saṃhitā
प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ ।
अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रतः॒ क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥
प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय सप्रथः |
अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न शोचिषा ||
prá samrā́je bṛhaté mánma nú priyámárca devā́ya váruṇāya sapráthaḥ ǀ
ayám yá urvī́ mahinā́ máhivrataḥ krátvā vibhā́tyajáro ná śocíṣā ǁ
pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ |
ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā ||
Padapāṭha
प्र । स॒म्ऽराजे॑ । बृ॒ह॒ते । मन्म॑ । नु । प्रि॒यम् । अर्च॑ । दे॒वाय॑ । वरु॑णाय । स॒ऽप्रथः॑ ।
अ॒यम् । यः । उ॒र्वी इति॑ । म॒हि॒ना । महि॑ऽव्रतः । क्रत्वा॑ । वि॒ऽभाति॑ । अ॒जरः॑ । न । शो॒चिषा॑ ॥
प्र । सम्ऽराजे । बृहते । मन्म । नु । प्रियम् । अर्च । देवाय । वरुणाय । सऽप्रथः ।
अयम् । यः । उर्वी इति । महिना । महिऽव्रतः । क्रत्वा । विऽभाति । अजरः । न । शोचिषा ॥
prá ǀ sam-rā́je ǀ bṛhaté ǀ mánma ǀ nú ǀ priyám ǀ árca ǀ devā́ya ǀ váruṇāya ǀ sa-práthaḥ ǀ
ayám ǀ yáḥ ǀ urvī́ íti ǀ mahinā́ ǀ máhi-vrataḥ ǀ krátvā ǀ vi-bhā́ti ǀ ajáraḥ ǀ ná ǀ śocíṣā ǁ
pra ǀ sam-rāje ǀ bṛhate ǀ manma ǀ nu ǀ priyam ǀ arca ǀ devāya ǀ varuṇāya ǀ sa-prathaḥ ǀ
ayam ǀ yaḥ ǀ urvī iti ǀ mahinā ǀ mahi-vrataḥ ǀ kratvā ǀ vi-bhāti ǀ ajaraḥ ǀ na ǀ śociṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.068.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.12.04
- Maṇḍala · Anuvāka · Ṛk
- 06.06.065
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.