Ṛk 6.68.1
Saṃhitā
श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै ।
आ य इंद्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥
श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद् वृक्तबर्हिषो यजध्यै |
आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत् ||
śruṣṭī́ vām yajñá údyataḥ sajóṣā manuṣvádvṛktábarhiṣo yájadhyai ǀ
ā́ yá índrāváruṇāviṣé adyá mahé sumnā́ya mahá āvavártat ǁ
śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai |
ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat ||
Padapāṭha
श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै ।
आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॒ऽव॒वर्त॑त् ॥
श्रुष्टी । वाम् । यज्ञः । उत्ऽयतः । सऽजोषाः । मनुष्वत् । वृक्तऽबर्हिषः । यजध्यै ।
आ । यः । इन्द्रावरुणौ । इषे । अद्य । महे । सुम्नाय । महे । आऽववर्तत् ॥
śruṣṭī́ ǀ vām ǀ yajñáḥ ǀ út-yataḥ ǀ sa-jóṣāḥ ǀ manuṣvát ǀ vṛktá-barhiṣaḥ ǀ yájadhyai ǀ
ā́ ǀ yáḥ ǀ índrāváruṇau ǀ iṣé ǀ adyá ǀ mahé ǀ sumnā́ya ǀ mahé ǀ ā-vavártat ǁ
śruṣṭī ǀ vām ǀ yajñaḥ ǀ ut-yataḥ ǀ sa-joṣāḥ ǀ manuṣvat ǀ vṛkta-barhiṣaḥ ǀ yajadhyai ǀ
ā ǀ yaḥ ǀ indrāvaruṇau ǀ iṣe ǀ adya ǀ mahe ǀ sumnāya ǀ mahe ǀ ā-vavartat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.068.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.11.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.057
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.