PABh zu PāśupSūtra, 1, 18
Select a line for its word-by-word analysis.
अत्र अकलुषा यस्य मतिः सो ऽयम् अकलुषमतिः ॥ (२।०)
atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ ||
नावेक्षेन् नाभिभाषेद् इत्य् उक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते ॥ (९।०)
nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante ||
अभिव्यक्तेश् चोच्यते कलुषितो ऽहं व्याहतो ऽहं मलिनीकृतो ऽहम् इति ॥ (१२।०)
abhivyakteś cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti ||
अतो द्वेषेच्छाक्रोधनिमित्तत्वान् मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते ॥ (१३।०)
ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate ||
यदा त्व् एते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् ॥ (१४।०)
yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam ||
न च निमित्तानित्यत्वान् नैमित्तिकं नित्यं भवति ॥ (१७।०)
na ca nimittānityatvān naimittikaṃ nityaṃ bhavati ||
न च यत्रैव कलुषम् उत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि ॥ (१९।०)
na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni ||
अथापि कलुषम् उत्पन्नं प्रध्वस्तं स्यात् तथापि तदर्थं न कर्तव्यानि ॥ (२१।०)
athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni ||
यदा तु तद् अवस्थितं सम्भवति शिरोरोगादिवत् तदा कर्तव्यानि ॥ (२२।०)
yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni ||
अत्र मतिर् इति बुद्धिर् इत्य् अनर्थान्तरम् ॥ (२३।०)
atra matir iti buddhir ity anarthāntaram ||
अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्य् अर्थः ॥ (२४।०)
atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.